________________
२ उयोतः]
ध्वन्यालोकः । यथा'चन्दमऊएहि णिसा णलिनी कमलेहि कुसुमगुच्छेहिँ लआ ।
हंसेहिं सरअसोहा कव्वकहा सज्जनेहिं करइ गरुई॥ इत्यादिषूपमागर्भत्वेऽपि सति वाच्यालंकारमुखेनैव चारुत्वं व्यवतिष्ठते न व्यङ्ग्यालंकारतात्पर्येण । तस्मात्तत्र वाच्यालंकारमुखेनैव काव्यव्यपदेशो न्याय्यः । यत्र तु व्यङ्ग्यपरत्वेनैव वाच्यस्य व्यवस्थानं तत्र व्यङ्ग्यमुखेनैव व्यपदेशो युक्तः। यथाप्राप्तश्रीरेष कस्मात्पुनरपि मयि तं मन्थखेदं विदध्या
निद्रामप्यस्य पूर्वामनलसमनसो नैव संभावयामि । सेतुं बध्नाति भूयः किमिति च सकलद्वीपनाथानुयात
स्त्वय्यायाते वितर्कानिति दधत इवाभाति कम्पः पयोधेः॥'
तकः । चन्दमऊ इति । चन्द्रमयूखादीनां ने निशादिना विना कोऽपि परभागलाभः । सज्जनानामपि काव्यकथां विना कीदृशी साधुजनता । चन्द्रमयूखैश्च निशाया गुरुकीकरणं भाखरत्वसेव्यत्वादि यत्क्रियते, कमलैनलिन्याः शोभा परिमललक्षम्यादि, कुसुमगुच्छैलेताया अभिगम्यत्वमनोहरत्वादि, हंसैः शारदशोभायाः श्रुतिसुखकरखमनोहरत्वादि, तत्सर्वे काव्यकथायाः सजनैरित्येतावानयमों गुरुः क्रियत इति दीपकबलाचकास्ति । कथाशब्दमाह-आसतां तावत्काव्यस्य केचन सूक्ष्मा विशेषाः सजनैर्विना काव्यमित्येष शब्दोऽपि ध्वंसते । तेषु तु सत्स्वास्ते सुभगं काव्यं काव्यशब्दव्यपदेशभागपि शब्दसंदर्भमात्रं तथा तथा तैः क्रियते यथा यथादरणीयतां प्रतिपद्यत इति दीपकस्यैव प्राधान्यं नोपमायाः । एवं तु कारिकार्थमुदाहरणेन प्रदर्यास्या एव कारिकाया व्यवच्छेद्यबलेन योऽर्थोऽमिमतो यत्र तत्परत्वं स ध्वनेमार्ग इत्येवंरूपस्तं व्याचष्टे-यत्र त्विति । तत्र च वाच्यालंकारेण कदाचिद्व्यङ्ग्यमलंकारतां यदि वा वाच्यालंकारस्य सद्भावमात्रं न व्यञ्जक.......वाच्यालंकारस्याभाव एव वेति त्रिधा विकल्पः । एतच्च यथायोगमुदाहरणेषु योज्यम् । 'उँदाहरति-प्राप्तेति । कस्मिंश्चिदनन्तबलसमुदायवति नरपतौ समुद्रपरिसरव
१. 'तथाहि' क-ख. २. 'चन्द्रमयूखैर्निशा नलिनी कमलैः कुसुमगुच्छलता। हंसैः शारदशोभा काव्यकथा सजनैः क्रियते गुर्वी ॥' इति च्छाया. ३. 'उपमालंकारगर्भत्वे सत्यपि' ग. ४. 'काव्यस्य' क-ख. ५. 'काव्यस्य व्यवस्थापनं' क-ख.
१. 'चन्दमऊ' इति ग-पुस्तके नास्ति'. २. 'अपि न' क-ख. ३. 'गुरुकी' क-ख. ५. 'तथाशब्द' ग. ५. 'आस्तां' ग. ६. 'व्यवच्छेद' ग. ७. 'वाच्यालंकारस्याभाव एव वेति' क-ख. ८. 'उदाहरति' ग-पुस्तके नास्ति.