SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। अन्यत्र वाच्यत्वेन प्रसिद्धो यो रूपकादिरलंकारः सोऽन्यत्र प्रतीयमानतया बाहुल्येन प्रदर्शितस्तत्रभवद्भिभट्टोद्भटादिभिः । तथा च ससंदेहादिधूपमारूपकातिशयोक्तीनां प्रकाशमानत्वं प्रदर्शितमित्यलंकारान्तरस्यालंकारान्तरे व्यङ्ग्यत्वं न यत्नप्रतिपाद्यम् । इयत्पुनरुच्यत एंव अलंकारान्तरस्यापि प्रतीतौ यत्र भासते । तत्परत्वं न वाच्यस्य नासौ मार्गो ध्वनेर्मतः ॥ २८ ॥ अलंकारान्तरस्य रूपकादेरलंकारप्रतीतो सत्यामपि यत्र वाच्यस्य व्यनयप्रतिपादनौन्मुख्येन चारुत्वं न प्रकाशते नासौ ध्वनेर्मार्गः । तथा च दीपैकादावलंकारे उपमाया गम्यमानत्वेऽपि तत्परत्वेन चारुत्वस्याव्यवस्थानान्न ध्वनिव्यप्रदेशः। पमा रूपकं वा ध्वन्यते । अतिशयोक्तेश्च प्रायशः सर्वालंकारेषु ध्वन्यमानत्वम् । अलंकारान्तरस्येति । यत्रालंकारोऽप्यलंकारान्तरं ध्वनति तत्र वस्तुमात्रेणालंकारो ध्वन्यत इति कियदिदमसंभाव्यमिति तात्पर्येणालंकारान्तरशब्दो वृत्तिकृता प्रत्युक्तो.... कुतोपयोगि (१) । न ह्यलंकारेणालंकारो ध्वन्यत इति प्रकृतमदः । अर्थशक्त्युद्भवे ध्वनौ वस्त्विवालंकारोऽपि व्यङ्ग्य इत्येतावतः प्रकृतत्वात् । तथा चोपसंहारग्रन्थे 'तेऽलंकाराः परां छायां यान्ति ध्वन्यङ्गतां गताः' इत्यत्र श्लोके वृत्तिकृत् ध्वन्यङ्गता चोभाभ्यां प्रकाराभ्यां' इत्युपक्रम्य 'तत्रेह प्रकरणाद्धन्यङ्गत्वेनेत्यवगन्तव्यम्' इति वक्ष्यति । अन्तरशब्दोऽत्रोभयत्रापि विशेषपर्यायः । वैषयिकीसप्तमी । न तु प्राग्व्याख्यायामिव निमित्तसप्तमी। तदयमर्थः-वाच्यालंकारविशेषविषयेऽप्यन्योऽलंकारविशेषो भातीत्युद्भटादिमिरुक्तमेवेत्यर्थशक्त्यालंकारो व्यज्यत इति तैरुपगतमेव । केवलं तेऽलंकारलक्षणकारखाद्वाच्यालंकारविशेषविषयत्वेनाहुरिति भावः । न तु पूर्वैरेव यदीदमुक्तं किमर्थं तव यत्न इत्याशझ्याह-इयदिति । अस्माभिरिति वाक्यशेषः । पुनःशब्दस्तदुक्ताद्विशेषद्यो १. 'अन्यवाच्यत्वेन' ग. २. 'संदेहादिषु' ग. ३. 'अलंकारान्तरत्वे' क-ख. ४. 'प्रतिपाद्यमिति' ग. ५. 'पुनरुक्तं' क-ख. ६. “एव' क-ख-पुस्तकयो स्ति. ७. 'काव्यस्य' क-ख. ८. 'ध्वनौ' क-ख. ९. 'अलंकारान्तरेषु तु अनुरणनरूपकालंकार' ग. १०. 'दीपकालंकारे' ग. ११. 'अप्यवस्थानात्' ग. १. 'संभाव्यं' ग. २. 'तात्पर्येणालंकारो ध्वन्यत इति' क-ख. ३. 'प्रस्तुतत्वात्' क-ख. ४. 'व्यङ्ग्यत्वेन' ग. ५. 'भावीत्युद्भटा' ग. ६. 'ते लक्षणकारखात्' क-ख. ७. 'विषयत्वेन तेनाहुः' क-ख.
SR No.023466
Book TitleDhvanyaloak
Original Sutra AuthorN/A
AuthorAnandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1928
Total Pages258
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy