________________
२ उयोतः]
ध्वन्यालोकः ।
१०७
यथा वा_ 'सिहिपिच्छकण्णपूरा जाआ वाहस्स गलिवरी भमइ ।
मुत्ताफलरइअपसाहणाण मज्झे सवत्तीणम् ॥' अर्थशक्तेरलंकारो यत्राप्यन्यः प्रतीयते ।
अनुस्वानोपमव्यङ्गयः स प्रकारोऽपरो ध्वनेः ॥ २६ ॥ वाच्यालंकारव्यतिरिक्तो यत्रान्योऽलंकारोऽर्थसामर्थ्यात्प्रतीयमानोऽवभासते सोऽर्थशक्त्युद्भवो नामानुखानरूपव्यङ्गयोऽन्यो ध्वनिः । तस्य प्रविरलविषयत्वमाशङ्कथेदमुच्यते
रूपकादिरलंकारवर्गो यो वाच्यतां श्रितः । स सर्वो गम्यमानत्वं बिभ्रद्धूम्ना प्रदर्शितः ॥ २७॥
भावः । 'शिखिपिच्छकर्णपूरा जाया व्याधस्य गैर्विणी भ्रमति । मुक्ताफलरचितप्रसाधनानां मध्ये सपत्नीनाम् ॥' शिखिमात्रमारणमेव तदासक्तस्य कृत्यम् । अन्यास्तु ला• सक्तो हस्तिनोऽप्यमारयदिति बहुवचनेनोक्तमुत्तमसौभाग्यम् । रचितानि विविधभङ्गीभिः प्रसाधनानीति तासां संभोगव्यग्रिमाभावाद्विरचनशिल्पकौशलमेव परमिति दौर्भाग्यातिशय इदानीं प्रकाशितः । गर्वश्च बाल्याविवेकादिनापि भवतीति नात्र खोक्तिसद्भावः शयः । एँष चार्थो यथायथा वर्ण्यते आस्तां वा वर्णना बहिरपि यदि प्रत्यक्षादिनावेलोक्यते तथातथा सौभाग्यातिशयं व्याधवध्वा द्योतयति । एवमर्थशक्त्युद्भवो द्विभेदो वस्तुमात्रस्य व्यञ्जनीयत्वे वस्तुध्वनिरूपतया निरूपितः । इदानीं तस्यैवालंकाररूपे व्यञ्जनीयेऽलंकारध्वनित्वमपि भवतीत्याह-अर्थेत्यादि । [अर्थशक्तेः] न केवलं शब्दशक्तेरलंकारः प्रतीयते पूर्वोक्तनीत्या यावदर्थशक्तेरपि । यदि वा न केवलं यत्र वस्तुमात्रं प्रतीयते यावदलंकारोऽपीत्यपिशब्दार्थः। अन्यशब्दं व्याचष्टे-वाच्येति ।....... देवम् । आशयेति । शब्दशक्त्या श्लेषाद्यलंकारो भासत इति संभाव्यमेतत् । अर्थशक्त्या तु कोऽलंकारो भातीत्याशङ्काबीजम् । सर्व इति प्रदर्शित इति च पदेनासंभावनात्र मिथ्यैवेत्याह । 'उपमानेन तत्त्वं च भेदं च वदतः पुनः । ससंदेहं वचः स्तुसै ससंदेहं विदुर्यथा ॥' इति । 'तस्याः पाणिरयं न मारुतचलत्पत्राङ्गुलिः पल्लवः' इत्यादावु
१. 'बहुआ' ग. २. 'अनुरणनरूपो व्यङ्ग्यो' क-ख. ३. 'अन्यो' ग-पुस्तके नास्ति. ४. 'तत्र' क-ख.
१. 'वधूः' ग. २. 'गर्वशीला' ग. ३. 'भावात्तद्धितरतिः प्रदर्शिता । गर्वश्च' क. ख. ४. ‘स एवार्थो' ग. ५. 'अलंक्रियते' क-ख. ६. 'यदि वा केवलं शब्दशक्तेरसंकारः प्रतीयते यावद्यत्रालंकारोऽपीति शब्दार्थः' क-ख. ७. 'शब्दार्थ वृत्त्या व्याचष्टे वाच्येति तत्रेति कोऽलंकारो भवतीत्याशङ्काबीजम्' क-ख.