________________
१०६
काव्यमाला। द्वौ प्रकारौ । कवेः कविनिबद्धस्य वा वक्तुः प्रौढोक्तिमात्रनिष्पन्नशरीर एकः खतः संभवी च द्वितीयः । कविप्रौढोक्तिमात्रनिष्पन्नशरीरो यथा'सज्जेहि सुरहिमासो ण दाव अप्पेइ जुअइजणलक्खमुहे ।।
अहिणवसहआरमुहे णवपल्लवपत्तले अणङ्गस्स शरे ॥' कविनिबद्धवक्तृप्रौढोक्तिमात्रनिष्पन्नशरीरो यथा-'शिखरिणि-' इत्यादौ । यथा वा'साअरविइण्णजोव्वणहत्थालम्बं समुण्णमन्तेहिम् ।
अब्भुट्ठाणं विअ मम्महस्स दिण्णं तुह थणेहिम् ॥' खतः संभवी य औचित्येन बहिरपि संभाव्यमानसद्भावो न केवलं भणितिवशेनैवाभिनिष्पन्नशरीरः । यथोदाहृतम् ‘एवंवादिनि'-इत्यादि ।
भवन्ति प्रकर्षेण ऊढः संपादयितव्येन वस्तुना प्राप्तस्तत्कुशलः प्रौढः । उक्तिरपि समर्पयितव्यवस्त्वर्पणोचिता प्रौढत्युच्यते । 'सज्जयति सुरभिमासो न तावदर्पयति युवतिजनलक्ष्यमुखान् । अभिनवसहकारमुखान्नवपल्लवपेत्रलाननङ्गस्य शरान् ॥' अत्र वैसन्तोऽचेतनोऽनङ्गस्य सखा सजयति न केवलं तावदर्पयतीत्येवंविधया समर्पयितव्यवस्वर्पण. कुशलयोक्त्या सहकारोनेदिनी वसन्तदशा यत उक्ता अतो ध्वन्यमानं मन्मथोन्माथस्यारम्भं क्रमेण गाढगाढीभविष्यन्तं व्यनक्ति । अन्यथा वसन्ते सपल्लवसहकारोद्गम इति वस्तुमात्रं न व्यञ्जकं स्यात् । एषा च कवेरेवोक्तिः प्रौढा । शिखरिणीति । अत्र लोहितं बिम्बफलं शुको दशतीति न व्यञ्जकता काचित् । यदा तु कविनिबद्धस्य साभिलाषस्य तरुणस्य वक्तुरित्थं प्रौढोक्तिस्तदा व्यञ्जकलम् । 'सादरवितीर्णयौवनहस्तालम्बं [कृत्वा] समुन्नमझ्याम् । अभ्युत्थानमिव मन्मथस्य दत्तं तव स्तनाभ्याम् ॥' स्तनौ तावदिह प्रधानभूतौ ततोऽपि गौरवितः कामस्ताभ्यामभ्युत्थानेनोपचर्यते । यौवनं चानयोः परिचारकभावेन स्थितमित्येवंविधेनोक्तिवैचित्र्येण तदीयस्तनावलोकनप्रवद्धमन्मथावस्थः को न भवतीति भन्या स्वामिप्रायध्वननं कृतम् । तव तारुण्येनोन्नती स्तनाविति हि वचनेन व्यञ्जकता न केवलमित्युक्तिवैचित्र्यं तावत्सर्वथोपयोगि भवतीति
१. 'वस्तु' ग. २. 'स्कन्धकं नाम च्छन्दः'. ३. 'निष्पन्नो यथा' ग. ४. 'बहिरपि' ग-पुस्तके नास्ति. ५. 'अमि' क-ख-पुस्तकयो स्ति.
१. 'संभवन्ति' क ख. २. 'यन्तलाननङ्गाय' ग. ३. 'वसन्तश्चेतनो' ग. ४. 'जयति' ग. ५. 'माथकस्य' क-ख. ६. 'प्रवृत्त' क-ख.