SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ २ उयोतः] कन्यालोकः । १०५ अर्थशक्त्या यथा'अम्बा शेतेऽत्र वृद्धा परिणतवयसामग्रणीरत्र तातो निःशेषागारकर्मश्रमशिथिलतनुः कुम्भदासी तथात्र । अस्मिन्पापाहमेका कतिपयदिवसप्रोषितप्राणनाथा पान्थायेत्थं तरुण्या कथितमवसरव्याहृतिव्याजपूर्वम् ॥' उभयशक्त्या यथा—'दृष्ट्या केशवगोपरागहृतया-' इत्यादौ । प्रौढोक्तिमात्रनिष्पनशरीरः संभवी स्वतः। अर्थोऽपि द्विविधो ज्ञेयो वस्तुनोऽन्यस्य दीपकः ॥२५॥ अर्थशत्युद्भवानुरणनरूपव्यङ्गये ध्वनौ यो व्यञ्जकोऽर्थ उक्तस्तस्यापि बलं भिनत्ति । आयासकारित्वात्। प्रत्याख्यानमिति । वचसैवात्र द्वितीयोऽर्थोऽमिधीयत इति निवेदितम् । कारयित्वेति । सा हि कमला पुण्डरीकाक्षमेव हृदये निधायोत्थितेति खयमेव देवान्तराणां प्रत्याख्यानं करोति । खभावसुकुमारतया तु मन्दरान्दोलितजलधितरङ्गभङ्गपर्याकुलीकृता तेन प्रतिबोधिता तत्समर्थाचरणमन्यत्र दोषोद्धाटनेनात्र याहीति चामिनयविशेषेण सकलगुणादरदर्शकेन कृतम् । अत एव मन्थमूढामित्याह । इत्युक्तप्रकारेण भयनिवारणव्याजेन सुराणां प्रत्याख्यानं मन्थमूढां लक्ष्मी कारयित्वा पयोधिर्यस्मै तामदात्स वो युष्माकं दुरितं दहत्विति संबन्धः । अत्रैकैकस्य पदस्य व्यञ्जकत्वं सहृदयैः सुकल्प्यमिति खकण्ठेन नोक्तम् । व्याजशब्दोऽत्र खोक्तिः । एवमुपसंहारव्याजेन प्रकारद्वयं सोदाहरणं निरूप्य तृतीयं प्रकारमाह-उभयेति । शब्दशक्तिस्तावद्गोपरागादि । शब्दश्लेषवशात् । अर्थशक्तिस्तु प्रकरणवशात् । यावदत्र राधारमणस्याखिलतरुणीजनच्छन्नानुरागगरिमास्पदत्वं न विदितं तावदर्थान्तरस्याप्रतीते: सलेशमिति खोक्तिः । एवमर्थशक्त्युद्भवस्य सामान्यलक्षणं कृतम् । श्लेषाद्यलंकारेभ्यश्चास्य विभक्तो विषय उक्तः । अधुनास्य प्रमेदनिरूपणं करोति-प्रौढोक्तीत्यादिना । योऽर्थान्तरस्य दीपको व्यञ्जकोऽर्थ उक्तः सोऽपि द्विविधः । न केवलमनुखानोपमो द्विविधः यावत्तद्देदो यो द्वितीयः सोऽपि व्यञ्जकार्थद्वैविध्यद्वारेण द्विविध इत्यपिशब्दस्यार्थः । प्रौढोक्तेरप्यवान्तरभेदमाह वृत्त्या-अर्थशक्तीत्यादिना । तेनैते त्रयो मेदा १. 'व्यङ्ग्यध्वनौ' क-ख. .. १. 'उक्तम्' ग. २. 'मन्थमूढां लक्ष्मी' ग-पुस्तके नास्ति. ३. 'उक्तम्' क-ख. ४. 'श्लेषाद्यलंकारश्चास्य' क-ख, 'श्लेषालंकारेभ्यश्चास्य' ग. ५. 'इत्युक्तः' क-ख. 5. 'अर्थ' ग-पुस्तके नास्ति. ७. 'द्वितीयः' क-ख. ८. 'यो यावत्तद्भेदो यो द्वितीयः' ग. ९. 'शब्दार्थः' क-ख. १०. 'आह-कवेरिति । तेनैते' ग.
SR No.023466
Book TitleDhvanyaloak
Original Sutra AuthorN/A
AuthorAnandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1928
Total Pages258
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy