________________
१०४
काव्यमाला।
वेथा च
शब्दार्थशक्त्या वाक्षिप्तो व्यङ्गयोऽर्थः कविना पुनः।
यत्राविष्क्रियते स्त्रोक्त्या सान्यैवालंकृतिलनेः ॥ २४ ॥ शब्दशक्त्यार्थशक्त्या शब्दार्थशक्त्या वाक्षिप्तोऽपि व्यङ्ग्योऽर्थः कविना पुनर्यत्र खोक्त्या प्रकाशीक्रियते सोऽस्मादनुस्खानोपमव्यङ्ग्याद्धनेरन्य एवालंकारः । अलक्ष्यक्रमव्यङ्गयस्य वा ध्वनेः । सति संभवे स ताहगन्योऽलंकारः ।
तत्र शब्दशक्त्या यथा'वत्से मा गा विषादं श्वसनमुरुजवं सत्यजोर्ध्वप्रवृत्तं
कम्पः को वा गुरुस्ते भवतु बलभिदा जम्भितेनात्र याहि । प्रत्याख्यानं सुराणामिति भयशमनच्छद्मना कारयित्वा
यस्मै लक्ष्मीमदाद्वः स दहतु दुरितं मन्थमूढां पयोधिः ॥'
प्रति न कस्यचिदमिधानशक्तिः पदस्येति व्यञ्जकत्वं न विघटितं तथापि शब्देनैवोक्तमयमर्थान्तरस्य व्यञ्जक इति । ततश्च ध्वनेयगोप्येमानतोदितचारुवात्मकत्वं प्राणितं तदपहस्तितम् । यथा कश्चिदाह-'गम्भीरोऽहं न मे कृत्यं कोऽपि वेद सुसूचितम् । किंचिद्रवीमि-' इति । तेन गाम्भीर्यसूचनार्थः प्रत्युत धिकृत एव । अत एवाह व्यञ्जकत्वमिति उक्त्यैवेति च । प्रक्रान्तप्रकारद्वयोपसंहारं तृतीयप्रैकारसूचनं चैकेनैव यत्नेन करोमीत्याशयेन साधारणमवतरणपदं प्रक्षिपति वृत्तिकृत्-तथा चेति। तेन चोक्तप्रकारद्वयेनायमपि तृतीयः प्रकारो मन्तव्य इत्यर्थः । शब्दश्चार्थश्च शब्दार्थावित्येकशेषः (१)। सान्यैवेति । न ध्वनिरसौ । अपि तु श्लेषादिरलंकार इत्यर्थः। अथवा ध्वनिशब्देन लक्ष्यक्रमः । तस्यालंकार्यस्याङ्गिनः स व्यङ्ग्योऽर्थोऽन्यो वाच्यमात्रालंकारापेक्षया द्वितीयो लोकोत्तरश्चालंकार इत्यर्थः । एवमेव वृत्तौ द्विधा व्याख्यास्यति शब्दशक्येत्यादिना। विषमत्तीति विषादः । ऊर्ध्वप्रवृत्तमग्निमित्यत्र चार्थो मन्तव्यः । कंपोऽपांपतिः को ब्रह्मा वा तव गुरुः । बलभिदा इन्द्रेण जृम्भितेन ऐश्वर्येणेत्यर्थः । जृम्भितं च गात्रसंमर्दनात्मक
१. 'शक्त्यापि क्षिप्तो' ग. २. “एव क्रमः' कख. ३. 'संवृणूर्व' ग. ४. 'मन्थमुग्धः ' ग.
१. 'उक्तसमर्थमर्थान्तरस्य' क-ख. २. 'मानं नोदित' क-ख. ३. 'अधिकृत एव' क-ख. ४. 'प्रमासूचनं' ग. ५. 'तथा चेति' क-ख-पुस्तकयो स्ति. ६. 'मन्थमुग्धः ' ग. ७. 'न' ग-पुस्तके नास्ति. ८. 'अलक्ष्यक्रमस्तस्यालंकारस्यालिङ्गिनः' क-ख. ९. 'अन्यो' क-ख-पुस्तकयो स्ति. १०. 'व्याचक्षते' क-ख. ११. 'शब्दशक्तयेत्यादिना' ग-पुस्तके नास्ति. १२. “ऐश्वर्येणेत्यर्थः' क-ख-पुस्खकयो स्ति.