________________
२३८
काव्यमाला।
सानवैमनस्यदायिनी समाप्तिमुपनिबध्नता महामुनिना वैसग्यजननतात्पर्य प्राधान्येन खप्रबन्धस्य दर्शयता मोक्षलक्षणः पुरुषार्थः शान्तो रसश्च मुख्यतया विवक्षाविषयत्वेन सूचितः । एतच्चांशेन विवृतमेवान्याख्याविधायिभिः । स्वयं चोद्गीर्णं तेनोदीर्णमहामोहमममुजिहीर्षता लोकमतिविमलज्ञानालोकदायिना लोकनाथेन
'यथा यथा विपर्येति लोकतन्त्रमसारवत् ।
तथा तथा विरागोऽत्र जायते नात्र संशयः ॥' इत्यादि बहुशः कथयता । ततश्च शान्तो रसो रसान्तरैर्मोक्षलक्षणः पुरुषार्थः पुरुषार्थान्तरैस्तदुपसर्जनत्वेनानुगम्यमानोऽङ्गित्वेन विवक्षाविषय इति महाभारततात्पर्य सुव्यक्तमेवावभासते । अङ्गाङ्गिभावश्च यथा रसानां तथा प्रतिपादितमेव । पारमार्थिकान्तस्तत्त्वानपेक्षया शरीरस्येवाङ्गभूतस्य रसस्य पुरुषार्थस्य च खप्राधान्येन चारुत्वमप्यविरुद्धम् । ननु महाभारत यावान्वि. वक्षाविषयः सोऽनुक्रमण्यां सर्व एवानुक्रान्तो न चैतत्तत्र दृश्यते । प्रत्युत सर्वपुरुषार्थप्रबोधहेतुत्वं सर्वरसगर्भवं च महाभारतस्य तस्मिन्नुद्देशे खशब्दनिवेदितत्वेन प्रतीयते । अत्रोच्यते-सत्यं शान्तस्यैव रसस्याङ्गित्वं महाभारते मोक्षस्य च सर्वपुरुषार्थेभ्यः प्राधान्यमित्येतन्न खशब्दाभिधेयत्वेनानुक्रमण्यां दर्शितं दर्शितं तु व्यङ्गयत्वेन । 'भगवान्वासुदेवश्व कीर्त्यतेऽत्र सनातनः' इत्यस्मिन्वाक्ये ह्ययमर्थो व्यङ्गयत्वेन विवक्षितो यदत्र महाभारते पाण्डवादिचरितं यत्कीर्त्यते तस्मात्तस्मिन्नेव परमेश्वरे भगवति भवत भावितचेतसो मा भूत विभूतिषु निःसारासु रागिणो गुणेषु वा नयविनयपराक्रमादिष्वमीषु केवलेषु केषुचित्सर्वात्मना प्रतिनिविष्टषियः तथा चागे पश्यत निःसारतां संसारस्येत्यमुमेवार्थ द्योतयत्स्फुटमेवावभासते । व्यञ्जकशक्त्यानुगृहीतश्च शब्दः । एवंविधमेव चार्थ गर्भीकृतं संदर्शयन्तोऽनन्तरश्लोका लक्ष्यन्ते 'सहि सत्यं-' इत्यादयः । अयं च निगूढरमणीयोऽर्थो
१. 'रसादीनां क-ख. २. 'पारमार्थिकान्ततस्तत्त्वानपेक्षया शरीरस्यैव' ग. ३. 'अनेन ह्ययं' ग. ४. 'संकीर्त्यते' ग. ५. 'सर्वस्यास्य संसारव्यवहारस्य' क-ख. ६. 'व्यञ्जकवानुगृहीतः' क-ख.