________________
३ उझ्योतः] ध्वन्यालोकः ।
२१३ शब्दशक्तिरेव हि खाभिधेयसामर्थ्याक्षिप्तकाकुसहाया सत्यर्थविशेषप्रतिपत्तिहेतुर्न काकुमात्रम् । विषयान्तरे खेच्छाकृतात्काकुमात्रात्तथाविधार्थप्रतिपत्त्यसंभवात् । स चार्थः काकुविशेषसहायशब्दव्यापारोपारूढोऽप्यर्थसामर्थ्यलभ्य इति व्यङ्ग्यरूप एव । वाचकत्वानुगमेनैव तु यदा तद्विशिष्टा वाच्यप्रतीतिस्तदा गुणीभूतव्यङ्ग्यतया तथाविधार्थद्योतिनः काव्यस्य व्यपदेशः । व्यङ्गयस्य विशिष्टवाच्याभिधायिनो हि गुणीभूतव्यङ्गयत्वम् ।
प्रभेदस्यास्य विषयो यश्च युक्त्या प्रतीयते । विधातव्या सहृदयैर्न तत्र ध्वनियोजना ॥ ४०॥ संकीर्णो हि कश्चिद्धनेर्गुणीभूतव्यङ्गयस्य च लक्ष्ये दृश्यते मार्गः । तंत्र यद्यस्य युक्तिसहायता तंत्र तेन व्यपदेशः कर्तव्यः । न सर्वत्र ध्वनिरागिणा भवितव्यम् । यथा'पत्युः शिरश्चन्द्रकलामनेन स्पृशेति सख्या परिहासपूर्वम् । सा रञ्जयित्वा चरणौ कृताशीर्माल्येन तां निर्वचनं जघान ।'
साधयति-शब्दशक्तिरिति । नन्वेवं व्यङ्ग्यवं कथमित्याशझ्याह-स चेति । अधुना गुणीभावं दर्शयति-वाचकत्वेति । वाचकवेऽनुगमो गुणवं व्यङ्ग्यव्यञ्जकभावस्य व्यङ्ग्यविशिष्टवाच्यप्रतीत्या । तत्रैव काव्यस्य प्रकाशकलं कल्प्यते । तेन च तथा व्यपदेश इति काकुयोजनायां सर्वत्र गुणीभूतव्यङ्ग्यतैव । अत एव 'मन्नामि कौरवशतं समरे न कोपात्' इत्यादौ विपरीतलक्षणामाहुस्ते न सम्यक्परामर्शाः । यन्नात्रोच्चारणकाल एव 'न कोपात्' इति दीप्ततारगद्गदसाकाङ्क्षकाकुबलान्निषेधस्य निषिध्यमानतयैव युधिष्ठिराभिमतसंधिमार्गक्षमारूपत्वाभिप्रायेण प्रतिपत्तिरिति मुख्यार्थबाधाद्यनुसरणविघ्नाभावात्को लक्षणाया अवकाशः । 'दर्श यजेत' इत्यत्र तु तथाविधकाक्काद्युपायान्तराभावाद्भवतु विपरीतलक्षणा इत्यलमवान्तरेण बहुना । अधुना संकीर्ण विषयं विभजतेप्रमेदस्येति । युक्त्येति । चारुवप्रतीतिरेवात्र युक्तिः । पत्युरित्यनेनालक्तकोपरक्तस्य हि चन्द्रमसः परभागलाभोऽनवरतपादपतनप्रसादनैर्विना न पत्युर्झटिति यथेष्टानुवृत्ति(वर्ति)न्या भाव्यमिति चोपदेशः । शिरोविधृता च या चन्द्रकला . तामपि परिभवेति सपनीलोकापजय उक्तः । निर्वचनमिति । अनेन लज्जावहित्थभूरीासाध्वससौभाग्याभिमानप्रभृति यद्यपि ध्वन्यते तथापि तन्निर्वचनशब्दार्थस्य कुमारीजनोचितस्याप्रति
१. 'कृतकाकु' ग. २. 'व्यापारोऽप्यर्थरूढो' क-ख. ३. 'सामर्थ्याल्लभ्यते' ग. ४. 'वाच्यार्थ' क-ख. ५. 'क्वचित्' ग. ६. 'तत्र'ग-पुस्तके नास्ति. ७. 'तदनेन' क-ख.