________________
२ उड्योतः]
ध्वन्यालोकः। उपमाध्वनिर्यथा'वीराणं रमइ घुसिणरुणम्मि ण तदा पिआथणुच्छङ्गे ।
दिट्ठी रिउगअकुम्भत्थलम्मि जह बहलसिन्दूरे ॥' यथा वा ममैव विषमबाणलीलायामसुरपराक्रमणे कामदेवस्य
"तं ताण सिरिसहोअररअणाहरणम्मि हिअअमेकरसम् ।
बिम्बाहरे पिआणं णिवेसि कुसुमबाणेण ॥' आक्षेपध्वनिर्यथा'स वक्तुमखिलाशक्तो हयग्रीवाश्रितान्गुणान् । योऽम्बुकुम्भैः परिच्छेदं ज्ञातुं शक्तो महोदधेः ॥'
लोकनेन भवतीतीयत्यभिधाया विश्रान्ततया रूपकं ध्वन्यमानमेव । वाच्यालंकारश्चात्र श्लेषः । स च न व्यञ्जकः । अनुरणनरूपं यत्र यद्रूपकमर्थशक्तिव्यङ्ग्यं तदाश्रयेणेह का. व्यस्य चारुत्वं व्यवतिष्ठते । ततस्तेनैव व्यपदेश इति संबन्धः। तत्तुल्ययोग........."दुपमाध्वन्युदाहरण................"खकण्ठेन न योजितम् । 'वीराणां रमते घुसृणारुणे न तथा प्रियास्तनोत्सङ्गे । दृष्टी रिपुगजकुम्भस्थले यथा बहलसिन्दूरे ॥' प्रसादितप्रियतमाश्वासनपरतया समनन्तरीभूतयुद्धत्वरितमनस्कतया च दोलायमानदृष्टित्वेऽपि युद्धे खरातिशय इति व्यतिरेको वाच्यालंकारः । तत्र तु येयं धन्य मानोपमा प्रियाकुचकुझ्यलाभ्यां सकलजनत्रासकरेष्वपि शात्रवेषु मत्सरोद्यतेषु गजकुम्भस्थलेष्विष्टा तद्शेन रतिमयानामिव बहुमान इति सैव वीरतातिशयचमत्कारं घेत इत्युपमायाः प्राधान्यम् । असुरपराक्रम इति । त्रैलोक्यविजयो हि तत्रास्य वर्ण्यते । तेषामसुराणां पातालवासिनां यैः पुनः पुनरिन्द्रपुरावमर्दनादि किं किं न कृतं तद्धृदयं येभ्यस्तेभ्योऽतिदुष्करेभ्योऽप्यकमनीयव्यवसायम् । तच्च श्रीसहोदराणामत एवानिर्वाच्योत्कर्षाणामित्यर्थः । तेषां रत्नानामा समन्ताद्धरणे एकरसं तत्परं यद्धृदयं तत्कुसुमबाणेन सुकुमा रतरोपकरणसंभारेण प्रियाणां बिम्बाधरे निवेशिंतम् तदवलोकनपरिचुम्बनदर्शनमात्र कृतकृत्यतामिमानयोगित्वेन कामदेवेन कृतम् । तेषां हृदयं यदत्यन्तं विजिगीषाज्वलनजाज्वल्यमानमभूदिति यावत् । अत्रातिशयोतिर्वाच्यालंकारः । प्रतीयमाना चोपमा ।
१. 'तत्तेषां श्रीसहोदररत्नाहरणे हृदयमेकरसम् । बिम्बाधरे प्रियाणां निवेशितं कुसुमबाणेन ॥' इति च्छाया.
१. 'भवतीत्यभिधाया विश्रान्तवात् क-ख.'२. 'यद्रूपं' क-ख. ३. 'तत्तुल्ययोजितम्' क-ख-पुस्तकयो स्ति. ४. 'कुङ्कुमारुणे' ग. ५. 'प्रियायाः' ग. ६. 'यडष्टिः' ग. ७. 'मदनोदितेषु' क-ख. ८. 'धीरता' क-ख. ९. 'विधत्ते' क-ख.