SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ ११२ काव्यमाला । अत्रातिशयोक्त्या हयग्रीवगुणानामवर्णनीयताप्रतिपादन रूपस्यासाधारणतद्विशेषप्रकाशनपरस्याक्षेपस्य प्रकाशनम् । अर्थान्तरन्यासध्वनिः नुरणनरूपव्ययश्च संभवति । तत्राद्यस्योदाहरणम् - शब्दशक्तिमूलानुरणनरूपव्यङ्गयोऽर्थशक्तिमूला 'देव्वा एतम्मि फले किं कीरइ एत्तिअं पुणा भणिमो । कङ्किल्लपल्लवाः पल्लवाणं अण्णाण ण सरिच्छा ॥' पदप्रकाशकश्चायं ध्वनिरिति वाक्यस्यार्थान्तरतात्पर्येऽपि सति न विरोधः । द्वितीयस्योदाहरणं यथा -comm 'हि'अअट्ठाविअमण्णुं अवरुण्णमुहं हि मं पसाअन्त । अवरद्धस्स वि ण हु दे पहुजाणअ रोसिउं सक्कम् ॥' सकलरत्नसारतुल्यो बिम्बाधर इति हि तेषां बहुमानो वास्तव एव । अत एव न रूपकध्वनिः । रूपकस्यारोप्यमाणत्वेनावास्तवत्वात् । तेषामसुराणां वस्तुवृत्त्यैव सादृश्यं स्फुरति । तदेव च सादृश्यं चमत्कारहेतुः प्राधान्येन । गुणानामवर्णनीयताप्रतिपादनमेवाक्षेपस्य रूपमिष्टप्रतिषेधात्मकम् । तस्य प्राधान्यं विशेषद्वारेणाह – असाधारणेति । संभवतीत्यनेन प्रसङ्गाच्छब्दशक्तिमूलस्यात्र विचार इति दर्शयति । 'दैवायत्ते तु फले किं क्रियतामेतावत्पुनर्भणामः । रक्ताशोकपल्लवाः पल्लवानामन्येषां न सदृशाः ॥' अशो कस्य फलमाम्रादिवन्नास्ति किं क्रियतां पल्लवास्त्वतीव हृद्या इतीयतामिधा समाप्तैव । अत्र फलशब्दस्य शक्तिबला समर्थकमस्य वस्तुनः पूर्वमेव प्रतीयते । लोकोत्तरजिगी - षातदुपायप्रवृत्तस्यापि हि फलं संपलक्षणं दैवायत्तं कदाचिन्न भवेदपीत्येवंरूपं सामान्यात्मकम् । नन्वत्र सर्ववाक्यस्याप्रस्तुतप्रशंसा प्राधान्येन व्यङ्ग्या तत्कथमर्थान्तरन्यासस्य । व्यङ्गयताद्वये युगपदेकत्र प्राधान्यायोगादित्याशङ्कयाह - पदप्रकाशेति । सर्वे हि ध्वनिप्रपञ्चः पदप्रकाशो वाक्यप्रकाशश्चेति र्वेक्ष्यते । तत्र फलपदेऽर्थान्तरन्यासध्वनिः प्राधान्येन । वाक्ये त्वप्रस...... "पि समर्थक भावप्राधान्यमेव भातीत्यर्था - न्तरन्यासध्वनिरेवायमिति भावः । हृदये स्थापितो न तु बहिः प्रकटितो मन्युर्यया अत एवाप्रदर्शितरोषमुखीमपि मां प्रसादयन् हे बहुज्ञ, अपराद्धस्यापि तव न खलु रोषकारणं १. ‘भणामि’ ख ग. २. 'हृदयस्थापितमन्युमपरोषमुखीमपि मां प्रसादयन् । अपराद्धस्यापि न खलु ते बहुज्ञ रोषितुं शक्यम् ॥' इति च्छाया. १. 'रूपकस्योपचारेण वास्तवत्वात् कख २. 'स्फुरितमिति' क ख. ३. 'समर्थ - तमस्य' ग. ४. ‘वक्ष्यति' क ख ५. 'प्राधान्येन ध्वनिः' क ख पुस्तकयोर्नास्ति. 'स्थितो' ख.
SR No.023466
Book TitleDhvanyaloak
Original Sutra AuthorN/A
AuthorAnandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1928
Total Pages258
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy