SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ २ उद्योतः ] ध्वन्यालोकः । १०१ अत्र हि वाच्यो विरोधस्तच्छायानुग्राही वा श्लेषोऽयमिति न शक्यं वक्तुम् । साक्षाच्छब्देन विरोधालंकारस्याप्रकाशितत्वात् । यत्र हि साक्षाच्छन्दावेदितो विरोधालंकारस्तत्र हि श्लिष्टोक्तौ वाच्यालंकारस्य विरोधस्य श्लेषस्य वा विषयत्वम् । यथा हर्षचरिते 'समवाय इव विरोधिनां पदार्थानाम् । तथाहि - संनिहितवालान्धकारा भास्वन्मूर्तिश्च' । इत्यादौ । यथा वा ममैव 'सर्वैकशरणमक्षयमधीशमीशं धियां हरिं कृष्णम् । चतुरात्मानं निष्क्रियमरिमथनं नमत चक्रधरम् ॥' अत्र हि शब्दशक्तिमूलानुस्खानरूपो विरोधः स्फुटमेव प्रतीयते । एवंविधो व्यतिरेकोऽपि दृश्यते । यथा ममैव 'खं येऽत्युज्ज्वलयन्ति लूनतमसो ये वा नखोद्भासिनो ये पुष्णन्ति सरोरुहश्रियमपि क्षिप्ताब्जभासश्च ये । विभवेषु रता विभवमहादेवस्थानेषु (1) स्थिताः । पद्मरागरत्नयुक्ताः पद्मसदृश लौहित्ययुक्ताश्च । धवलैर्द्विजैर्दन्तैः शुचि निर्मलं वदनं यासां धेवलद्विजवदुत्कृष्टविप्रवच्छुचि वदनं ...... । यत्र हीति । यस्यां श्लेषोक्तौ काव्यरूपायां तत्र यो विरोधः श्लेषो वेति संकरः । तस्य विषयत्वम् । स विषयोऽत्र भवतीत्यर्थः । तत्रैव विरोधश्लेषे वाच्यालंकारत्वं सुवचमिति यावत् । उदाहरति- ममेति । वालेषु केशेष्वन्धकारः कार्यं । बालः प्रत्यअश्चान्धकारस्तमः । ननु मातङ्गेत्यादावपि धर्मद्वये यश्चकारः स विरोधद्योतक एव । अन्यथा प्रतिधर्मं सर्वधर्मान्ते वा न क्वचिर्चेकारः स्यात् । यदि समुच्चयार्थः स्यादित्यसिप्रायेणोदाहरणान्तरमाह-यथेति । शरणं गृहमक्षयरूपमगृहं कथम् । यो न धीशः स कथं धियामीशः । यो हरिः कपिलः स कथं कृष्णः । चतुरः पराक्रमयुक्तो यस्यात्मा स कथं निष्क्रियः । अरीणामरयुक्तानां यो नाशयिता स कथं चक्रं बहुमानेन धारयति विरोध इति । विरोधनमित्यर्थः । प्रतीयत इति । स्फुटं नोच्यते केनचिदिवि भावः । नखैरुद्भास्यन्ते अवश्यं खे गगने उद्भासन्ते । उभये रश्म्यात्मानोऽङ्गुलीपा-प्रर्याद्यवयवरूपाश्चेत्यर्थः । एवं शब्दशक्त्युद्भवं ध्वनिमुक्लार्थशतयुद्भवं दर्शयति १. ‘विरोधच्छाया' क ख २. 'शब्दनिवेदितो' क-ख. ३. प्रथमोच्छ्वासे. ४. ' एवं विरोधव्यतिरेकेऽपि' क ख . १. 'धवल — हीति' क- ख. पुस्तकयोर्नास्ति. २. ' तस्य वाच्यालंकारस्य वाच्यालंकृतेस् ंकारत्वं' ग. ३. 'चमत्कारः ' क-ख. ४. 'चमत्कारो यदि' क- ख. ५. 'उद्भासन्ते* ग. ६. 'स्पष्टशब्द' क- ख. ७. 'व्याख्याय द्वितीयं निरूपयितुमाह--' ग. १० ध्व० लो० )
SR No.023466
Book TitleDhvanyaloak
Original Sutra AuthorN/A
AuthorAnandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1928
Total Pages258
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy