________________
१०२
काव्यमाला। ये मूर्धखवभासिनः क्षितिभृतां ये चामराणां शिरां
स्याक्रामन्त्युभयेऽपि ते दिनपतेः पादाः श्रिये सन्तु वैः॥' एवमन्येऽपि शब्दशक्तिमूलानुस्खानरूंपव्यङ्गयध्वनिप्रकाराः सन्ति ते -सहृदयैः खयमनुसतव्याः । इह तु ग्रन्थविस्तरभयान्न तत्प्रपञ्चः कृतः ।
अर्थशक्त्युद्भवस्वन्यो यत्रार्थः संप्रकाशते । यस्तात्पर्येण वस्वन्यधनक्त्युक्तिं विना स्वतः ॥ २३ ॥ यथार्थः स्वसामर्थ्यादर्थान्तरमभिव्यनक्ति शब्दव्यापार विनैव सोऽर्थशक्त्युद्भवो नामानुस्खानोपमव्यङ्ग्यो ध्वनिः । यथा
‘एवंवादिनि देवर्षों पार्श्वे पितुरधोमुखी ।
लीलाकमलपत्राणि गणयामास पार्वती ॥' अत्र हि लीलाकमलपत्रगणनमुपसर्जनीकृतखरूपं शब्दव्यापार विनैवार्थान्तरं व्यभिचारिभावलक्षणं प्रकाशयति । न चायमलक्ष्यक्रमव्यङ्ग्यस्यैव ध्वनेविषयः । यतो यत्र साक्षाच्छब्दनिवेदितेभ्यो विभावानुभावव्यभिचारिभ्यो रसादीनां प्रतीतिः स तस्य केवलस्य मार्गः । यथा कुमारसंभवे मधुप्रसने
अर्थेति । अन्य इति शब्दशक्त्युद्भवात् । खतस्तात्पर्येणेत्यमिधाव्यापारनिराकरणपरमिदं ध्वननव्यापारमाह न तु तात्पर्यशक्तिम् । सा हि वाच्यार्थप्रतीतावेवोपक्षीणेत्युक्तं प्राक् । अनेनैवाशयेन वृत्तौ व्याचष्टे-यत्रार्थः स्वसामर्थ्यादिति । खत इति शब्द
खशब्देन व्याख्यातः। उक्तिं विनेति व्याचष्टे-शब्दव्यापार विनैवेति । उदाहरति.यथा-एवमिति । अर्थान्तरमिति लज्जात्मकम् । साक्षादिति । व्यभिचारिणो यत्रालक्ष्यक्रमतया व्यवधिवन्ध्यैव प्रतिपत्तिः संबन्धीत्येव . स्खविभावादिबलात्तत्र साक्षाच्छब्दनिवेदितत्वं विवक्षितमिति न पूर्वापरविरोधः । पूर्व ह्युकं व्यभिचारिणां विभावत्वान्न खशब्दतः प्रतिपत्तिरित्यादि विस्तरतः। एतदुक्तं भवति-यद्यपि रसभावादिरों ध्वन्यः
१. 'मूर्धनि' ग. २. 'श्रियै' ग. ३. 'नः' क-ख. ४. 'रूपा ध्वनिप्रकाराः' क-ख. ५. 'संभवन्ति' क-ख. ६. 'तत्' क-ख-पुस्तकयो स्ति. ७. 'ध्वनति' ग.
१. 'प्रतीतौ वोप-' क-ख. २. 'उदाहरति यथा-एवमिति' ग-पुस्तके नास्ति. ३. 'प्रतिपत्तिखभावादिबलात्' क-ख. ४. 'अभिभावलात्' क, 'अपि भावत्वात्' ख. ५. 'शब्दतः' क-ख..