SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ १५२ अस्य विवक्षितान्यपरवाच्यस्य ध्वनेरनुरणनरूपव्यङ्गयोऽपि यः प्रमेद उदाहृतो द्विप्रकारः सोऽपि प्रबन्धेषु केषुचिद्द्योतते । तद्यथा मधुमथनविजये पाञ्चजन्योक्तिषु । तथा वा ममैव कामदेवस्य सहचरसमागमे विषमबाणलीलायाम् । यथा च गृध्रगोमायुसंवादादौ महाभारते । काव्यमाला | चेति । यथा स्वप्नवासवदत्ताख्ये नाटके – 'संजितपक्ष्म कपाटं नयनद्वारं स्वरूपतडनेन (?) । उद्घाट्य सा प्रविष्टा हृदयगृहं मे नृपतनूजा ॥' इति । न केवलं प्रबन्धेन साक्षाद्यङ्गयो रसो यावत्पारम्पर्येणापीति दर्शयितुमुपक्रमते - किं चेति । अनुखानोपमः शब्दशक्तिमूलोऽर्थशक्तिमूलश्च यो ध्वनेः प्रभेद उदाहृतः स केषुचित्प्रबन्धेषु निमित्तभूतेषु व्यञ्जकेषु सत्सु व्यङ्ग्यतया स्थितः सन् अस्येति रसादिध्वनेः प्रकृतस्य भासते । व्यञ्जकतयेति शेषः । वृत्तिग्रन्थोऽप्येवमेव योज्यः । अथ चानुखानोपमः प्रभेद उदाहृतो यः प्रबन्धेषु भासते अस्यापि 'द्योत्यो लक्ष्यक्रमः क्वचित्' इत्युत्तरश्लोकेन कारिकावृत्त्योः संगतिः । एतदुक्तं भवति — प्रबन्धेन कदाचिदनुरणनरूपव्यङ्ग्यो ध्वनिः साक्षाद्यज्यते स तु रसादिध्वनौ पर्यवस्यतीति । यदि तु स्पष्टमेव व्याख्यायते तदा ग्रन्थस्य पूर्वोत्तरस्यालक्ष्यक्रमविषयस्य मध्ये ग्रन्थोऽयमसंगतः स्यात्, नीरसत्वं च पाञ्चजन्योक्त्यादीनामुक्तं स्यादित्यलम् । 'लीलादाढा शुध्यूड्डासअलमहिमण्डलसचिअ अज्ज । कीस्मसुणालाहरतुज्जआइ अङ्गमि ॥' इत्यादयः पाञ्चजन्योक्तयो रुक्मिणीविप्रलब्धवासुदेवाशयप्रतिभेदनाभिप्रायमभिव्यञ्जयन्ति । सोऽभिव्यक्तः प्रकृतरसखरूप - पर्यवसायी । सहचरा वसन्तयौवनमलयानिलादयस्तैः सह समागमे । 'मिअवहण्डिअरोरोणिरङ्कुसो अविवेअरहिओ वि । सविण वि तुमम्मि पुणोवन्ति अ अतन्ति पुंमुसिम्मि इत्यादयो यौवनस्योक्तयस्तत्तन्निजस्वभावव्यञ्जिकाः । स्वभावः प्रकृतरसपर्यवसायी । यथा चेति । श्मशानावतीर्णं पुत्रदाहार्थमुद्योगिनं जनं विप्रलब्धुं गृध्रो दिवा शवशरीरभक्षणार्थी शीघ्रमेवापसरत यूयमित्याह । 'अलं स्थित्वा श्मशानेऽस्मिन्गृध्रगोमायुर्सकुले । कङ्कालबहले घोरे सर्वप्राणिभयंकरे ॥ न चेह जीवितः कश्चित्कालधर्ममुपागतः । प्रियो वा यदि वा द्वेष्यः प्राणिनां गतिरीदृशी ॥' इत्याद्यवोचत् । गोमायुस्तु निशोदयावधि अमी तिष्ठन्त्विति ततो गृध्रादपहृत्याहं र्भक्षयिष्यामीत्यभिप्रायेणावोचत् । 'आदित्योऽयं स्थितो मूढाः स्नेहं कुरुत सांप्रतम् । बहुविघ्नो मुहूर्तोऽयं जीवेदपि कदाचन ॥ अमुं कनकवर्णाभं बालमप्राप्तयौवनम् गृध्रवाक्यात्कथं बालास्त्यक्ष्यध्वमविशङ्किताः ॥ इत्यादि । स चाभिप्रायो व्यक्तः शान्तरस एव परिनिष्ठिततां प्राप्तः । एवमलक्ष्यक्रमव्यजयस्य रसादिध्वनेर्यद्यपि वर्णेभ्यः प्रभृति प्रबन्धपर्यन्ते व्यञ्जकवर्गे निरूपितेन निरू १. ‘अद्यापि’ क-ख. २. 'इलोदाढं गुंधरि अस... ... इमहिमंधतुं सविअअं ज । की... रणानि तुंझगरुआ ... इअङ्गम् ॥' ग. सर्वेषु पुस्तकेष्वेतदग्रिमं च प्राकृतमत्यशुद्धमस्ति . ३. ‘नियम’ ग. ४. ‘इत्याद्यनेकमवोचत्' क- ख. ५. 'जम्बुकस्तु' ग. ६. ' भक्षयामि' ग.
SR No.023466
Book TitleDhvanyaloak
Original Sutra AuthorN/A
AuthorAnandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1928
Total Pages258
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy