SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ ३ उध्योतः] ध्वन्यालोकः। यानुपयोगित्वं पृथगवभासित्वं चेति त्रयम् । तत्र रसादिप्रतीतिर्गुणवृत्तिरिति न केनचिदुच्यते न च शक्यते वक्तुम् । व्यायालंकारप्रतीतिरपि । तथैव वस्तु चारुत्वप्रतीतये खशब्दानभिधेयत्वेन यत्प्रतिपादयितुमिष्यते तयङ्ग्यम् । तच्च न सर्व गुणवृत्तेविषयः । प्रसिद्ध्यनुरोधाभ्यामपि गौणानां शब्दानां प्रयोगदर्शनात् । तथोक्तं प्राक् । यदपि च विषयस्तदपि च व्यञ्जकत्वानुप्रवेशेन । तस्माद्गुणवृत्तेरपि व्यञ्जकत्वस्यात्यन्तविलक्षणत्वम् । वाचकत्वगुणवृत्तिविलक्षणस्यापि च तस्य तदुभयाश्रयत्वेन व्यवस्थानम् । व्यञ्जकत्वं हि कचिद्वाचकत्वाश्रयेण व्यवतिष्ठते । यथा विवक्षितान्यपरवाच्ये ध्वनौ । क्वचित्तु गुणवृत्त्याश्रयेण यथा अविवक्षितवाच्ये ध्वनौ । तदुभयाश्रयत्वप्रतिपादनायैव च ध्वनेः प्रथमतरं द्वौ प्रभेदावुपन्यस्तौ । तदुभयाश्रितत्वाच्च तदेकरूपत्वं तस्य न शक्यते वक्तुम् । यस्मान्न तद्वाचकत्वैकरूपमेव । कचिल्लक्षणाश्रयेण वृत्तेः । न च लक्षणैकरूपमेवान्यत्र वाचकत्वाश्रयेण व्यवस्थानात् । न चोभयधर्मत्वेनैव तदेकैकरूपं न भवति । माह-तत्रेति । न च शक्यत इति । लक्षणासामय्यास्तत्राविद्यमानवादिति हि पूर्वमेवोक्तम् । तथैवेति । न तत्र गुणवृत्तियुक्तत्यर्थः । वस्तुनो यत्पूर्व विशेषणं कृतं तद्याचष्टे -चारुत्वप्रतीतय इति । न सर्वमिति । किंचित्तु भवति । यथा'निःश्वासान्ध इवादर्शः' । इति यदुक्तम्-'कस्यचिद्भवनिभेदस्य सा तु स्यादुपलक्षणम्' इति प्रसिद्धितो लावण्यादयः शब्दा वृत्तानुरोधव्यवहारानुरोधादेवेति । यथा-'वदति बिसिनीपत्रशयनम्' इत्येवमादयः। प्रागिति प्रथमोहयोते 'रूढा ये विषयेऽन्यत्र' इत्यत्रान्तरे। (न सर्वमिति ।) यथास्माभिर्व्याख्यातं तथा स्फुटयति-यदपि चेति । गुणवृत्तेरिति पञ्चमी । अधुनेतररूपोपजीवकत्वेन च तदितरस्मादित्यनेन पर्यायेण वाचकाद्गुणवृत्तेश्च द्वितीयादपि मिन्नं व्यञ्जकत्वमित्युपपादयति-वाचकत्वेति । चोऽवधारणे मिन्नक्रमः। अपिशब्दोऽपि । न केवलं पूर्वोक्तो हेतुकलापो यावत्तदुभयाश्रयत्वेन मुख्योपचाराश्रयत्वेन यद्यवस्थानं तदपि वाचकगुणवृत्तिविलक्षणस्यैवेति व्याप्तिघटनम् । तेनायं तात्पर्यार्थःयदुभयाश्रयत्वेन व्यवस्थानात्तदुभयवैलक्षण्यमिति । एतदेव विभजते-व्यञ्जकत्वं हीति।प्रथमतरमिति प्रथमोड्योते ‘स च-' इत्यादिना प्रन्थेन। हेत्वन्तरमपि सूचयतिन. चेति । वाचकवगौणत्वोभयवृत्तान्तवैलक्षण्य ......तो हेतुः । तमेव प्रकाश १. 'यथास्मिन्' क-ख. २. 'तदुभयाश्रयत्वाच' क-ख. ३. 'शक्यं ग. . . १. 'व्यवहारानुरोधैः' क-ख. २. 'वाचकत्वगुणवृत्तिविलक्षणैवेति' क-ख. ३. 'व्यवस्थानं' क-ख.
SR No.023466
Book TitleDhvanyaloak
Original Sutra AuthorN/A
AuthorAnandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1928
Total Pages258
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy