SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ १९२ काव्यमाला । 1 यैव शब्दस्य व्यापारः । न ह्यर्थाद्व्यङ्ग्यत्रयप्रतीतिर्या तस्या अमुख्यत्वं मनागपि लक्ष्यते । अयं चान्यः खरूपभेदः — यद्गुणवृत्तिरमुख्यत्वेन व्यवहितं वाचकत्वमेवोच्यते । व्यञ्जकत्वं तु वाचकादत्यन्तं विभिन्नमेव । एतच्च प्रतिपादितम् । अयं चापरो रूपभेदो यद्गुणवृत्तौ पदार्थोऽर्थान्तरमुपलक्षयति । तदोपलक्षणीयार्थात्मना परिणत एवासौ संपद्यते । यथा 'गङ्गायां घोषः ' इत्यादौ । व्यञ्जकत्वमार्गे तु यदार्थोऽर्थान्तरं द्योतयति तदा खरूपं प्रकाशय. नेवासावन्यस्य प्रकाशकः प्रतीयते प्रदीपवत् । यथा - ' लीलाकमलपत्राणि गणयामास पार्वती' इत्यादौ । यदि च यत्रातिरस्कृतखैरूपप्रतीतिरर्थोऽर्थान्तरं लक्षयति तत्र लक्षणाव्यवहारः क्रियते । तदेवं सति लक्षणैव मुख्यः शब्दव्यापार इति प्राप्तम् । यस्मात्प्रायेणैव वाक्यानां वाच्यव्यतिरिक्ततात्पर्यविषयार्थावभासित्वम् । ननु त्वत्पक्षेऽपि यदार्थो व्यङ्ग्यत्रयं प्रकाशयति तदा शब्दस्य कीदृशो व्यापारः । उच्यते — प्रकरणाद्यवच्छिन्न शब्दवशेनैवार्थस्य तथाविधं व्यञ्जकत्वमिति शब्दस्य तत्रोपयोगः कथमपहूयते । विषयभेदोSपि गुणवृत्तिव्यञ्जकत्वयोः स्पष्ट एव । यतो व्यञ्जकत्वस्य रसादयोऽलंकारविशेषा व्यङ्ग्यरूपावच्छिन्नं वस्तु चेति त्रयं विषयः । 'अस्खलद्गतित्वं सम व्यङ्ग्यत्रयमिति । वस्त्वलंकाररसात्मकम् । वाचकत्वमेवेति । तत्रापि हि तथैव समयोपयोगोऽस्त्येव । प्रतिपादितमिति । इदानीमेव परिणत. पेणासिर्भासमान (?) इत्यर्थः । कीदृश इति मुख्या वा न वा प्रकारान्तराभावात् । मुख्य वाचकत्वमन्यथा गुणवृत्तिः । गुणो निमित्तं सादृश्यादि तद्वारिका वृत्तिः शब्दस्य व्यापारो गुणवृत्तिरिति भावः । मुख्य एवासौ व्यापारः सामग्रीभेदाच्च वाचकत्वाद्व्यतिरिच्यत इत्यभिप्रायेणाह - उच्यत इति । एवमस्खलद्गतित्वात् ( कथं ) समयानुपयोगात्पृथगाभासमानत्वाच्चेति त्रिभिः प्रकारैः प्रकाशकत्वस्यैतद्विपरीतरूपत्रयाच्च गुणवृत्तेः स्वरूपं भेदं व्याख्याय विषयभेदमाह - विषभेदोऽपीति । वस्तुमात्रं गुणवृत्तेरपि विषय इत्यभिप्रायेण विशेषयति — व्यङ्ग्यरूपावच्छिन्नमिति । व्यञ्जकत्वस्य यो विषयः स गुणवृत्तेर्न विषयः । अन्यथा तस्या विषयभेदो योज्यः । तत्र प्रथमं प्रकार - १. 'व्यवस्थितं' क ख २. 'लक्षणीयात्परिणत' क.ख. ३. 'बोधयति' ख. ४. 'यत्रातितिरस्कृत' ख. ५. 'खप्रतीति' ग. ६. 'स्फुट: ' ग. १. 'मुख्येन वा' क- ख. २. ' अन्यश्च' क- ख.
SR No.023466
Book TitleDhvanyaloak
Original Sutra AuthorN/A
AuthorAnandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1928
Total Pages258
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy