SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ ३ उध्योतः] ध्वन्यालोका क्वचिद्वाच्यस्य प्राधान्यमपरस्य च गुणभावः । तत्र व्ययप्राधान्ये ध्वनिरित्युक्तमेव । वाच्यप्राधान्ये तु प्रकारान्तरं निर्देक्ष्यते । तस्मस्थितमेतत् -- व्यङ्ग्यपरत्वेऽपि काव्यस्य न व्यङ्ग्यस्याभिधेयत्वमपि तु व्यङ्गयत्वमेव । किं च व्यङ्ग्यस्य प्राधान्येनाविवक्षायां वाच्यत्वं तावद्भवद्भिर्नाभ्युपगन्तव्यमतत्परत्वाच्छब्दस्य । तदस्ति तावद्यङ्गयः शब्दानां कश्चिद्विषय इति । यत्रापि तस्य प्राधान्यं तत्रापि किमिति तस्य खरूपमैपडूयते । एवं तावद्वाचकत्वादन्यदेव व्यञ्जकत्वम् । इतश्च वाचकत्वाद्यञ्जकत्वस्यान्यत्वं यद्वाचकत्वं शब्दैकाश्रयमितरत्तु शब्दाश्रयमर्थाश्रयं च । शब्दार्थयोर्द्वयोरपि व्यञ्जकत्वस्य प्रतिपादितत्वात् । गुणवृत्तिस्तूपचारेण लक्षणया चोभयाश्रयापि भवति । किंतु ततोऽपि व्यञ्जकत्वं स्वरूपतो विषयतश्च भिद्यते । रूपभेदस्तावदयम्-यदमुख्यतया व्यापारो गुणवृत्तिः प्रसिद्धा । व्यञ्जकत्वं तु मुख्यत तत्रेति । उभयोः प्रकारयोर्मध्याद्यदा प्रथमः प्रकार इत्यर्थः । प्रकारान्तरमिति गुणीभूतव्यङ्ग्यसंज्ञितम् । व्यङ्ग्यत्वमेवेति प्रकाशत्वमेवेत्यर्थः । ननु यत्परः स शब्दार्थ इति व्यङ्ग्यस्याप्राधान्ये वाच्यत्वमेव न्याय्यम् , तस्य प्राधान्ये किं युक्तं व्यङ्ग्यत्वमिति चेत्सिद्धो नः पक्षः । एतदाह-किं चेति । ननु प्राधान्ये मा भूयङ्ग्यत्वमित्याशमाह-यत्रापीति । अर्थान्तरत्वं संबन्धिसंबन्धत्वमनुपयुक्तं समयत्वमिति व्यङ्ग्यतायां निबन्धनम् , तच्च प्राधान्येऽपि विद्यत इति खरूपमहेयमेवेति भावः । एतदुपसंहरति-पवमिति । विषयमेदेन स्वरूपभेदेन चेयर्थः । तावदिति वक्तव्यान्तरमासूत्रयति । तदेवाह-इतश्चेति । अनेन सामग्रीमेदात्कारणमेदोऽप्यस्तीति दर्शयति । एतच्च वितत्य ध्वनिलक्षणे 'यत्रार्थः शब्दो वा-' इति वाग्रहणं, 'व्यङ्कः' इति द्विर्वचनं च व्याचसाणैरस्माभिः प्रथमोड्योत एव दर्शितमिति पुनर्न विस्तार्यते । एवं विषयभेदात्खरूपमेदात्कारणमेदाच्च वाचकत्वान्मुख्यात्प्रकाशकत्वस्य भेदं प्रतिपाद्योभयाश्रयसाविशेषात्तर्हि व्यञ्जकत्वगौणत्वयोः को भेद इत्याशयामुख्यादपि प्रतिपादयितुमाह-गुणवृत्तिरिति । उभयाश्रयापीतिशब्दार्था)श्रया । उपचारलक्षणयोः प्रथमोध्योत एव विभज्य निर्णीतं खरूपमिति न पुनर्लिख्यते । मुख्यतयैवेति । अस्खलद्गतित्वेनेत्यर्थः । ____१. 'गुणीभावः' क-ख. २. 'वाक्यस्य' ग. ३. 'एतस्य' क-ख. ४. 'अपहियते' य. ५. 'व्यजकत्वसामान्यत्वं' क-ख. १. 'तर्थप्राधान्ये' क. २. 'विचार्यते' क-ख. ३. 'मेदप्रतीतिं विप्रतिपाद्य' ग. ४. 'स्खलद्गति' ग.
SR No.023466
Book TitleDhvanyaloak
Original Sutra AuthorN/A
AuthorAnandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1928
Total Pages258
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy