SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ ६६ काव्यमाला। यैन मुखं चुम्बितं तेनामृतरसनिगरणविश्रान्तिपरम्पराणां तृप्तिीवेति कोपप्रसादसंधिश्चमत्कारस्थानम् । क्वचिद्यभिचार्यन्तरशबलतैव विश्रान्तिपदम् । यथा-'क्वाकार्य शशलक्ष्मणः क्व च कुलं भूयोऽपि दृश्येत सा दोषाणां प्रशमाय मे श्रुतमहो कोपेऽपि कान्तं मुखम् । किं वक्ष्यन्त्यपकल्मषाः कृतधियः स्वप्नेऽपि सा दुर्लभा चेतः स्वास्थ्यमुपैहि कः खलु युवा धन्योऽधरं धास्यति ॥' अत्र हि वितर्कीत्सुक्ये मतिस्मरणे शङ्कादैन्ये स्मृतिचिन्तने परस्परं बाध्यबाधकभावेन द्वन्द्वशो भवन्ती पर्यन्ते तु चिन्ताया एव प्रधानता ददती परमाखादस्थानम् । एवमन्यदप्युत्प्रेक्ष्यम् । एतानि चोदयसंधिशबलवादिकानि कारिकायामादिग्रहणेन गृहीतानि । नन्वेवं विभावानुभावमुखेनाप्यधिकश्चमत्कारो दृश्यत इति विभावध्वनिरनुभावध्वनिश्च वक्तव्यः । मैवम् । विभावानुभावौ तावत्खशब्दवाच्यावेव । तच्चर्वणापि चित्तवृत्तिष्वेव पर्यवस्यतीति रसभावेभ्यो नाँधिकं चर्वणीयम् । यदि तु विभावानुभावापि व्यङ्गयौ भवतस्तदा वस्तुवनिरपि किं न सह्यते । यदा तु विभौवानुभावाभासाद्रत्याभासोदयस्तदा विभावानुभावाभासीच्चर्वणाभास इति रसाभासस्य विषयः । यथा रावणकाव्याकर्णने शृङ्गाराभासः । यद्यपि 'शृङ्गारानुवृत्तिर्या तु स हासः' इति मुनिना निरूपितं तथाप्यौत्तरकालिकं तत्र हास्यरसत्वम् । 'दूराकर्षणमोहमन्त्र इव मे तन्नानि याते श्रुतिं चेतः कालकलामपि प्रकुरुते नावस्थितिं तां विना।' इत्यत्र तु न हास्यचर्वणावसरः । ननु नात्र रतिः स्थायिभावोऽस्ति । परस्परावस्थाबन्धाभावात् केनैतदुक्तं रतिरिति । रत्याभासो हि सः । अतश्चाभीसो येनास्य सीता मैय्युपेक्षिका द्विष्टा वेति प्रतिपत्तिहृदयं न स्पृशत्येव । तत्स्पर्शे हि तस्याप्यभिलाषो विलीयेत । न च मयीयमनुरक्तेत्यपि निश्चयेन कृतं कामकृतान्मोहात् । अत एव तदाभासत्वम् । वस्तुतस्तन्न स्थाप्यते । शुक्तौ रजताभासवत् । ऐतच्च शृङ्गारानुकृतिं प्रयुञ्जानो मुनिरपि सूचितवान् । अनुकृतिरमुख्यता आभास इति ह्येकोऽर्थः । अत एवाभिलाषे एकतरनिष्ठेऽपि शृङ्गारशब्देन तेत्र तत्र व्यवहारस्तदाभासतया मैंन्तव्यः । शृङ्गारेण वीरादीनामप्याभासरूपतोपलक्षितैव । एवं रसध्वनेरेकस्यैवामी भावध्वनिप्रभृतयो निःस्र्यंन्दा आखादे १. 'तेनामृतस्य रसविश्रान्तिनिगरणपरम्पराणां' क-ख. २. 'जातेति' ग. ३. 'वृत्तचिन्तने' क-ख. ४. 'भवन्ति तत्पर्यन्ते-ददति' ग. ५. 'आहाद' ग. ६. 'अपि' क-ख-पुस्तकयो स्ति. ७. 'न' ग-पुस्तके नास्ति. ८. 'यदा' ग. ९. 'एव' ग. १०. 'अपि' ग-पुस्तके नास्ति. ११. "विभावाभासरत्याभासादयः' ग. १२. 'भासाश्वर्व' क-ग. १३. 'तु' क-ख. १४. 'परस्परावस्थाबाधाभावात्' क-ख. १५. 'आभासतः' ग. १६. 'उपेक्षिता' ग. १७. 'न हृदयं न च' क-ख. १८. 'तत्वशोभित. स्यापि' ग. १९. 'लीयेत' क-ख. २०. 'अतश्च' क-ख.. २१. 'नुकृतिर्यथाशब्दं प्रयुञ्जानो' ग. २२. एकवारमेव तत्रेति क-ख-पुस्तकयोः. २३. 'मन्तव्यम्' ग. २४. 'अपि' क-ख-पुस्तकयो स्त्रि. २५. 'एकस्य' क-ख-पुस्तकयो स्ति. २६. 'निःष्यन्द आखादे प्रधानम्' क-ख.
SR No.023466
Book TitleDhvanyaloak
Original Sutra AuthorN/A
AuthorAnandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1928
Total Pages258
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy