________________
२ उच्योतः ]
ध्वन्यालोकः ।
रसादिरर्थो हि सहैव वाच्येनावभासते । स चाङ्गित्वेनावभासमानो
ध्वनेरात्मा ।
इदानीं रसवदेलंकारादलक्ष्यक्रमद्योतनात्मनो ध्वनेर्विभक्तो विषय इति प्रदर्श्यते
'वाच्यवाचकचारुत्वहेतूनां विविधात्मनाम् । रसादिपरता यत्र स ध्वनेर्विषयो मतः ॥ ४ ॥'
६७
परस्परावस्थाबन्ध
प्रयोजनम् । प्रयोजकमेवमेव भावादिकमंशं विभज्य पृथग्व्यङ्ग्यं स्थाप्यते । यथा गन्धयुक्तिज्ञैरेकसंमूच्छितामो दोपभोगेऽपि शुद्ध मांस्यादिप्रयुक्तमिदं सौरभमिति । रसध्वनिस्तु स एवं योऽत्रै मुख्यतया विभावानुभावव्यभिचारिसंयोजनोदितस्थायिप्रतिपत्तिकस्य प्रतिपत्तुः स्थाय्यंशचर्वणाप्रयुक्त एवाखादप्रकर्षः । यथा - ' - ' कृच्छ्रेणोरुयुगं व्यतीत्य सुचिरं भ्रान्त्वा नितम्बस्थले मध्येऽस्यास्त्रिवलीतरङ्गविषमे निःस्पन्दतामागता । मदृष्टिस्तृषितेव संप्रति शनैरारुह्य तुङ्गौ स्तनौ साका मुहुरीक्षते जललवप्रस्यन्दिनी लोचने ॥' अत्र हि नायि कानुवर्ण्यमानखात्मप्रकृतिपवित्रितचित्रफलकावलोकनाद्वत्सराजस्य रूपो रतिस्थायिभावो विभावानुभावसंयोजनवशेन चर्वणारूढ इति । तदलं बहुना । स्थितमेतत् – 'रसादिरर्थोऽङ्गित्वेन भासमानोऽसंलक्ष्यक्रमव्यङ्ग्यस्य ध्वनेः प्रकार' इति । सहैवेति । इवशब्देन संलक्ष्यता विद्यमानत्वेऽपि क्रमस्य व्याख्याता । वाच्येनेति । विभावानुभावादिना । नन्वङ्गित्वेनावभासमान इत्युच्यते तत्राङ्गलमपि किमस्ति रसादे - र्येन तन्निराकरणायैतद्विशेषणमित्य भिप्रायेणोपक्रमते - इदानीमित्यादिना । अङ्गत्वमैंस्ति रसादीनां रसवत्प्रेयऊर्जखिसमाहितालंकाररूपतायामिति भावः । अनया चे भङ्गया रसवदादिष्वलंकारेषु रसादिध्वनेर्नान्तर्भाव इति सूचयति वाच्येति । पूर्वं हि समासोक्त्यादिषु वस्तुध्वनेर्नान्तर्भाव इति दर्शितम् । वाच्यं च वाचकं च तच्चारुत्वहेतव - श्चेति द्वन्द्वः । वृत्तावपि शब्दाश्चार्थाश्चालंकाराश्चेति द्वेन्द्रः । मत इति । पूर्वमेवैतदुक्तमित्यर्थः । ननूक्तं भट्टनायकेन – “रसो यदा परगततया प्रतीयते 'तैर्हि ताटस्थ्यमेव
१. ‘अव' क-ख-पुस्तकयोर्नास्ति. २. 'अलंकारादौ ' क-ख.
१. 'पृथग्व्यवस्थाप्यते' क ख २. 'भोगोपरि' क ख ३. 'यत्र' क-ख. ४. कृच्छ्रात्' ग. ५. 'नायिकाकारानु' क-ख. ६. 'आदिना' ग-पुस्तके नास्ति ७. 'अपि क-ख. ८. ‘प्रेयस्व्यूर्जखि' क- ख. ९. 'च' क-ख- पुस्तकयोर्नास्ति. १०. ' सूचयति' इत्यारभ्य 'नान्तर्भाव इति' इतिपर्यन्तं कख पुस्तकयोर्नास्ति ११. 'द्वन्द्वः' क-खपुस्तकयोर्नास्ति. १२. 'तत्' ग.