SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। स्यात् । न च खगतत्वेन रामादिचरितमयात्काव्यादसौ प्रतीयते । खात्मगतत्वेन च प्रतीतौ खात्मनि रसस्योत्पत्तिरेवाभ्युपगता स्यात् । सा चायुक्ता । सामाजिक प्रत्यविभावत्वात् । कान्तावं साधारणं वासनाविकासहेतुर्विभावनायां प्रयोजकमिति चेत्, देवतावर्णनादौ तदपि कथम् । न च खकान्तास्मरणं मध्ये संवेद्यते । अलोकसामान्यानां च रामादीनां ये समुद्रसेतुबन्धादयो विभावास्ते कथं साधारण्यं भजेयुः । न चोत्साहादिमानं स्मर्यते। अननुरूपत्वात् । शब्दादपि तत्प्रतिपत्तौ नैं रसोपजनः । प्रत्यक्षादिव नायकमिथुनप्रतिपत्तौ । उत्पत्तिपक्षे च करुणस्योत्पादाद्दुःखिले करुणप्रेक्षासु पुनरप्रवृत्तिः स्यात् । तन्न । उत्पत्तिरपि नाप्यभिव्यक्तिः । शक्तिरूपस्य हि शृङ्गारस्याभिव्यक्तौ विषयार्जनतारतम्यप्रवृत्तिः स्यात् । तत्रापि "किं स्वगतोऽभिव्यज्यते पैरगतो वेति पूर्ववदेव दोषः । तेन न प्रतीयते नोत्पद्यते नाभिव्यज्यते काव्येन रसः । किं वन्यशब्दवैलक्षण्यं काव्यात्मनः शब्दस्य । त्र्यंशताप्रसादात् । तत्राभिधायकत्वं वाच्यविषयम् , भावकत्वं रसादिविषयम् , भोक्तृत्वं सहृदयविषयमिति त्रयोंऽशभूता व्यापाराः । तत्राभिधाभागो यदि शुद्धः स्यात्तत्तन्त्रादिभ्यः शास्त्रन्यायेभ्यः श्लेषोद्यलंकाराणां को भेदः । वृत्तिभेदवैचित्र्यं वाकिंचित्करम् । श्रुतिदुष्टादिवर्जनं च किमर्थम् । तेन रसभावनाख्यो द्वितीयो व्यापारः । यद्वशादभिधापि लक्षणैव । तच्चैतद्भावकत्वं नाम यत्काव्यस्य तद्विभावादीनां साधारणत्वापादनं नाम । भाविते च रसे तस्य भोगः । योऽनुभवस्मरणप्रतिपत्तिभ्यो विलक्षण एव द्रुतिविस्तरविकासनामा रजस्तमोवैचित्र्याननुविद्धसत्त्वमयनिजचित्स्वभावनिवृत्तिद्रुतिविश्रान्तिलक्षणः परब्रह्मास्वादसचिवः । स एव च प्रेधानभूतोंऽशः सिद्धिरूप इति । व्युत्पत्तिनामाप्रधानमेवेति ।' अत्रोच्यते-रसस्वरूप एव तावद्विप्रतिपत्तयः प्रतिवादिनाम् । तथाहि पूर्वावस्थायां यः स्थायी स एव व्यभिचारिसंपातादिना प्राप्तपरिपोषोऽनुकार्यगत एव रसः । नाट्ये तु प्रयुज्यमानवान्नाट्यरस इति केचित् । प्रवाहधर्मिण्यां चित्तवृत्तौ चित्तवृत्तवृत्त्यन्तरेण कः परिपोषार्थः । विस्मयशोकक्रोधादेश्च क्रमेण तावन्न परिपोष इति नानुकार्यो रसः । नानुकर्तरि च तद्भावेन लयाद्यनुकरणं स्यात् । सामाजिकगते वा क १. 'रसस्यैव' क-ख. २. 'उत्साहादिमान् रामः' क-ख. ३. 'भूतखात्' क-ख. ४. 'त' क-ख-पुस्तकयो स्ति. ५. 'अदुःखित्वे' ग. ६. 'तन्न' इत्यारभ्य 'स्यात्' इत्यन्तं क-ख-पुस्तकयो स्ति. ७. 'च किं न स्वागतो व्यज्यते' क-ख. ८. 'परगतो' इत्यारभ्य 'नाभिव्यज्यते' इत्यन्तं क-ख-पुस्तकयो स्ति. ९. 'रसविषयम्' ग. १०. 'ऽयमशुद्धः' ग. ११. 'तत्' ग-पुस्तके नास्ति. १२. 'श्लेषालंकाराणां' ग. १३. ‘एको भेदः' ग. १४. 'चापि किंचित्' क-ख. १५. 'यः' क-ख. १६. 'पादनानाम' ग. १७. 'अनुभाव' क-ख. १८. 'दूती' ग. १९. 'विशुद्ध' ग. २०. 'द्रुति' क-ख-पुस्तकयो स्ति. २१. 'सविधः' क-ख. २२. 'प्रधानरूपोऽशेषसिद्ध' ग. २३. 'तु' क-ख-पुस्तकयो स्ति. २४. चित्तवृत्त्यन्तरेण' ख. २५. 'न' क-ख-पुस्तकयो स्ति. २६. 'भावे लयाद्यनुसरणं' क-ख.
SR No.023466
Book TitleDhvanyaloak
Original Sutra AuthorN/A
AuthorAnandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1928
Total Pages258
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy