SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ २ उझ्योतः] ध्वन्यालोकः। श्चमत्कारः । प्रत्युत करुणादौ दुःखप्राप्तिः । तस्मानायं पक्षः । कस्तर्हि । इहानन्त्यानियतस्यानुकारो न शक्यः, निष्प्रयोजनश्च विशिष्टताप्रतीतौ । ताटस्थ्येन व्युत्पत्त्यभावात् । तस्मादनियतावस्थात्मकं स्थायिनमुद्दिश्य विभावानुभावव्यभिचारिभिः संयुज्यमोनैरयं रामः सुखीति स्मृतिविलक्षणा स्थायिनि प्रतीतिगोचरतयाखादरुपा प्रतिपत्तिरनुकालॅम्बना नाट्यैकगामिनी रसः । स च ने व्यतिरिक्तमाधारमपेक्षते । किं बनुकार्याभिन्नाभिमते नर्तके आखादयिता सामाजिक इत्येतावन्मांत्रमदः । तेन नाट्य एव सः, नानुकार्यादिष्विति केचित् । अन्ये तु-अनुकर्तरि यः स्थाय्यवभासोऽभिनयादिसामग्र्यादि. कृतो भित्ताविव हरितालादिना खावभासः स एव लोकातीततयाखादापरसंज्ञया प्रतीत्या रस्यमानो रस इति नाट्याद्रसा नाट्यरसाः । अपरे पुनर्विभावमनुभावमेव विशिष्टसामग्र्या समर्प्यमाणं तद्विभावनीयानुभावनीयस्थायिरूपचित्तवृत्त्युपचितवासनानुषक्तं स्वनितिर्वणाविशिष्टमेव रसः । तनाट्यमेव रसाः । अन्ये तु शुद्धं विभावम् , अपरे शुद्धमनुभावम् , केचित्तु स्थायिमात्रम् , इतरे व्यभिचारिणम् , अन्ये तत्संयोगम् , एके नुकार्यम् , केचेंन सकलमेव समुदायं रसमाहुरित्यलं बहुना। काव्येऽपि च लोकनाट्यधैर्मिस्थानीये खभावोक्तिवक्रोक्तिप्रकारद्वयेनालौकिकप्रसन्नमधुरौजखिशब्दसमर्प्यमाणविभावादियोगादियमेव रेसवार्ता । अस्तु वा नाट्याद्विचित्ररूपा रसप्रतीतिः । उपायवैलक्षण्यादियमेव तावदत्र सरणिः । एवं स्थिते प्रथमपक्ष एवैतानि दूषणानि । प्रतीतेः स्वपरगतलादिविकल्पने सर्वपक्षेषु प्रतीतिरपरिहार्या । रसस्य प्रतीतं हि पिशाचवदव्यवहार्यं स्यात् । किं तु यथा प्रतीतिमात्रत्वेनाविष्टत्वेऽपि प्रात्यक्षिकी आनुमानिकी आगमोत्था प्रतिभानकृता योगिप्रत्यक्षजा च प्रतीतिरुपायवैलक्षण्यादन्यैव तद्वदियमपि प्रतीतिश्चर्वणाखादनभोगापरनामा भैवतु । तन्निदानभूताया हृदयसंवादाद्युपकृताया विभावादिसामग्र्या लोकोत्तररूपत्वाद्रसाः प्रतीयन्त इति । ओदनं पचतीतिवद्यवहारः प्रतीयमान एव हि रैसः । १. 'तस्मानियतात्मक' ग. २. 'मानोऽयं रसः' क, 'मानोऽयं रामः' ख. ३. 'रूपप्रति' क-ख. ४. 'लम्बनानास्यैक' क. 'लम्बनायैक' ग. ५. 'न' ग-पुस्तके नास्ति. ६. 'रिक्तसाधारणमपे' क-ख. ७. 'मात्रभेदः' ख. ८. 'रसाः' ग. ९. 'केचित्' क-ख-पुस्तकयो स्ति. १०. 'भिन्नव्यवहारतालादिना' क-ख. ११. 'तु' ग. १२. 'वृत्त्युचित' क-ख, १३. 'सक्तं' क-ख. १४. 'चर्वणाविष्टं' क-ख. १५. 'तनाट्यमेव रसाः' क-ख-पुस्तकयो स्ति. १६. 'अपरे तु' ग. १७. 'केचित्स्थायि' क-ख. १८. 'व्यभिचारिणः' ग. १९. 'तत्त्वसंयोग' ग. २०. 'केचित्' ग. २१. 'धर्मे स्थानीयेन' क-ख. २२. 'रसवार्तास्तु । तत्र' क ख. २३. 'विरचितरूपा' ग. २४. 'गतादि' क-ख. २५. 'न सर्वपक्षेषु च' क-ख. २६. 'अप्रतीतं' क-ख. २७. 'स्यात्' क-ख-पुस्तकयो स्ति. २८. 'यया' ख. २९. 'प्रात्यक्षी' क-ख. ३०. 'आगमोर्थी' क-ग. ३१. 'प्रत्यक्षजाता प्रतीति' क-ख. ३२. 'भवतु' ग-पुस्तके नास्ति. ३३. 'सहृदय' क-ख. ३४. 'रसप्रतीतिरेव' क-ख.
SR No.023466
Book TitleDhvanyaloak
Original Sutra AuthorN/A
AuthorAnandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1928
Total Pages258
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy