SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ १५० काव्यमाला। मुखगर्भावमर्शनिर्वहणाख्यानां तदङ्गानां चोपक्षेपादीनां घटनं रसाभिव्यक्त्यपेक्षया । यथा रत्नावल्याम् । न तु केवलं शास्त्रस्थितिसंपादनेच्छया । यथा वेणीसंहारे विलासाख्यस्य प्रतिमुखसंध्यङ्गस्य प्रकृतरसनिबन्धाननुगुणमपि द्वितीयेऽङ्के भरतमतानुसरणमात्रेच्छया घटनम् । इदं चापरं प्रबन्धस्य रसव्यञ्जकत्वे निमित्तं यदुद्दीपनप्रशमने यथावसरं....."रसस्य । यथा रत्नावल्यामेव । पुनरारब्धविश्रान्ते रसस्याङ्गिनोऽनुसंधिश्च । यथा 'विश्रान्तविग्रहकथः-' इति 'राज्यं निर्जितशत्रु-' इति च वचोभिः 'उपभोगसेवावसरोऽयम्' इत्युपक्षेपात्प्रभृति हि निरूपितम् । एतत्तु समस्तसंध्यङ्गखैरूपं तत्पाठपृष्ठं(?). प्रदर्यमानमतितमां ग्रन्थगौरवमावहति । प्रत्येकेन तु प्रदर्यमानं पूर्वापरानुसंधानवन्ध्यतया केवलं संमोहदायि भवतीति न विततम् । अस्यार्थस्य यत्नावधेयत्वेनेष्टत्वात्वकण्ठेन यो व्यतिरेक उक्तो 'न तु केवलया' इति तस्योदाहरणमाह-न त्विति । केवलशब्दमिच्छाशब्दं च प्रयुञानस्यायमाशयः-भरतमुनिना संध्यङ्गानां रसाङ्गभूतमिति वृत्तप्रशस्त्युपादानमेव प्रयोजनमुक्तम् । न तु पूर्वरङ्गवददृष्टसंपादनं विघ्नवारणम् । यथोक्तम्-'इष्टस्यार्थस्य रचना वृत्तान्तस्यानपक्षयः । रागप्राप्तिः प्रयोगस्य गुह्यानां चैव गृहनम् ॥ आश्चर्यवदभिख्यानं प्रकाश्यानां प्रकाशनम् । अङ्गानां षडिधं ह्येतदृष्टं शास्त्रे प्रयोजनम् ॥' इति । ततश्च, 'समीहा रतिभोगार्थो विलासः परिकीर्तितः।' इति, प्रेतिमुखसंध्यङ्गविलासलक्षणे रतिभोगशब्द आधिकारिकरसोचितस्थौयिभावोपव्यञ्जकविभावाद्युपलक्षणार्थवेन प्रयुक्तः । यथा-'तत्त्वं नाधिगतार्थः-' इति । प्रकृतो ह्यत्र वीररसः । उद्दीपन इति । उद्दीपनं विभावादिपरिपूरणम् । यथा-'अयं स राआ उदयणो त्ति' इत्यादि सागरिकायाः प्रशमनं वासवदत्तातः पलायने पुनरुद्दीपनं चित्रफलकोल्लेखे प्रशमनं सुसंगताप्रवेशे...... इत्यादि । गाढं ह्यनवरतपरिमृदितो रसः सुकुमारमालतीकुसुमवज्झटित्येव ग्लानिमवलम्बते । विशेषतस्तु शृङ्गारः । यदाह मुनिः'यद्वाम्याभिनिवेशिलं यतश्च विनिवार्यते । दुर्लभवं यतो नार्याः कामिनः सा परा रतिः॥' इति । वीररसादावपि यथावसरमुद्दीपनप्रशमनाभ्यां विनापि झटित्येवाद्भुतफलकल्पे साध्ये लब्धे प्रकटीचिकीर्षित उपायोपेयभावो न प्रदर्शित एव स्यात् । पुनरिति । इति वृत्तवशादारब्धाशयमानप्राया न तु सर्वथैवोपनता विश्रान्तिर्विच्छेदो यस्य स तथा । रसस्येति । रसाङ्गभूतस्य कस्यापीति यावत् । तापसवत्सराजे हि वासवदत्ताविषयो १. 'यथावसर..... रहस्य' क-ख-पुस्तकयो स्ति. १. 'स्वरूपतत्परं पृष्ठे प्रदर्श्यमान' ग. २. 'प्रमुख' क. ३. 'स्थायिभावोपपत्तिक' क. ४. 'पूरणया' क-ख. ५. 'सुमनलता' क, 'सुसंगतातः' ग. ६. 'ह्यनुवासरमृदितसुकुमार' क-ख. ७. 'फुल्लकल्पो मध्ये' क-ख.
SR No.023466
Book TitleDhvanyaloak
Original Sutra AuthorN/A
AuthorAnandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1928
Total Pages258
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy