SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ ३ उड्योतः] ध्वन्यालोकः। १४९ पायव्युत्पत्तिनान्तरीयकविभावादिसंयोगप्रसादोपनत इत्येवं रसोचितविभवाद्यनुबद्धरसाखादवैवश्यमेव खरसभाविन्यां व्युत्पत्तौ प्रयोजकमिति प्रीतिरेवे व्युत्पत्तेः प्रयोजिका । प्रीत्यात्मा च रसस्तदेव नाट्यं नाट्य एव च वेद इत्यस्मदुपाध्यायः । न चैते प्रीतिव्युत्पत्ती भिन्नरूपे एव । द्वयोरप्येकविषयत्वात् । विभावाद्यौचित्यमेव हि सद्यः प्रीतेर्निदानमित्यसकृदवोचाम । विभावादीनां तद्रसोचितानां यथास्वरूपवेदनं फलपर्यन्तीभूततया व्युत्पत्तिरित्युच्यते । फलं च नाम यददृष्टवशाद्देवताप्रसादादन्यतो वा जायते । न च तदुपदेश्यम् । तत उपायो व्युत्पत्तियोगात् । तेनोपायक्रमेण प्रवृत्तस्य सिद्धिः अनुपायद्वारेण प्रवृत्तस्य नाश इत्येवं नायकप्रतिनायकवेनार्थानर्थोपायव्युत्पत्तिः कार्या । उपायश्च कर्ताश्रीयमाणः पञ्चावस्था भजते । तद्यथा-खरूपं, खरूपात्किंचिदुच्छासतां, कार्यसंपादनयोग्यता, प्रतिबन्धोपनिपातेन शश्यमानतां, निवृत्तिप्रतिपक्षतायां बाधकबाधनेन सुदृढ फलपर्यन्तताम् । एवमार्तिसहिष्णूनां विप्रलम्भभीरूणां प्रेक्षापूर्वकारिणां तावदेवं कारणोपादानम् । ता एवंविधाः पञ्चावस्थाः कारणगता मुनिनोक्ताः-'संसाध्ये फलयोगे तु व्यापारः कारणस्य यः । तस्यानुपूर्व्या विज्ञेयाः पञ्चावस्थाः प्रयोक्तृभिः ॥ प्रारम्भश्च प्रयत्नश्च तथा प्राप्तेश्च संभवः । नियता च फलप्राप्तिः फलयोगश्च पञ्चमः ॥' इति । एवं या एताः कारणस्यावस्थास्तत्संपादकलकर्तुरितिवृत्तं पञ्चधा विभक्तम् । त एव मुखप्रतिमुखगर्भावमर्शनिर्वहणाख्या अन्वर्थनामानः पञ्चसंधय इतिवृत्तखण्डाः। संधीयन्त इति कृला तेषामपि संधीनां खनिर्वाह्यं प्रति तथा क्रमदर्शनादवान्तरभिन्ना इतिवृत्तभागाः संध्यङ्गानि 'उपक्षेपः परिकरः परिन्यासो विलोभनम्' इत्यादीनि । अर्थप्रकृतयो नैवान्तर्भूताः । तथा हि स्वायत्तसिद्धर्बीजं बिन्दुः कार्यमिति तिस्रः । बीजेन सर्वव्यापारहेतुना बिन्दुनानुसंधानात्मना कार्येण निर्वाहरूपेण संदर्शनाध्यवसायरूपा ह्येतास्तिस्रोऽर्थे संपाये कर्तुः प्रकृतयः स्वभावविशेषाः । सचिवायत्तसिद्धिवे तु सचिवस्य तदर्थमेव वा स्वार्थमपि वा प्रवृत्तखेन प्रकीर्णत्वप्रसिद्धखाभ्यां प्रकरीपताकाव्यपदेशतयोभयसंबन्धी व्यापारविशेषः प्रकरीपताकाशब्दाभ्यामुक्त इति । एवं प्रस्तुतफलनिर्वाहणम् । तस्याधिकारिकस्य वृत्तस्य पञ्चसंधिवं पूर्णसंध्यङ्गता च सर्वजनव्युत्पत्तिदायिनी निबन्धनीया । प्रासङ्गिके खितिवृत्ते नायं नियम इत्युक्तं 'प्रासङ्गिके परार्थखान्न ह्येष नियमो भवेत्' इति मुनिना । एवंस्थिते रत्नावल्यां धीरललितस्य नायकस्य धर्माविरुद्धसंभोगसेवायामनौचित्याभावात्प्रत्युत न निःसुखः स्यादिति श्लाघ्यत्वात्पृथ्वीराज्यमहाफलान्तरानुबन्धिकन्यालाभफलोद्देशेन प्रस्तावनोपक्रमे पञ्चापि संधयोऽवस्थापञ्चकसहिताः समुचितसंध्यङ्गपरिपूर्णा अर्थप्रकृतियुक्ता दर्शिता एव । 'प्रारम्भे(ब्धे)ऽस्मिन्वामिनो वृद्धिहेती-' इति हि बीजादेव प्रभृति १. "विभावाद्युपनिबन्धे' क-ख. २. 'प्रतीतिरेव' क. ३. 'एवमास्तिकसहिष्णूनां' ग. ४. 'सर्वव्यापनात्' क-ख. ५. 'संधानात्' क-ख. ६. 'निर्वाहासंदर्शन' क-ख. ७. 'व्यवसाय' ग. १४ ध्व. लो.
SR No.023466
Book TitleDhvanyaloak
Original Sutra AuthorN/A
AuthorAnandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1928
Total Pages258
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy