________________
१४८
काव्यमाला। . तत्र चाभ्युपायः सम्यग्विभावाद्यौचित्यानुसरणम् । तच्च दर्शितमेव ।
किंच,
'सन्ति सिद्धरसप्रख्या ये च रामायणादयः ।
कथाश्रया न तैर्योज्या खेच्छा रसविरोधिनी ।' तेषु कथाश्रयेषु तावखेच्छैव न योज्या । यदुक्तम्- 'कथामार्गे न चातिक्रमः' । खेच्छापि यदि योज्या तद्रसविरोधिनी न योज्या । इदमपरं प्रबन्धस्य रसाभिव्यञ्जकत्वे निबन्धनम् । इतिवृत्तवशायातां कथंचिद्रसाननुगुणां स्थितिं त्यक्त्वा पुनरुत्प्रेक्ष्याप्यन्तराभीष्टरसोचितकथोन्नयो विधेयः यथा कालिदासप्रबन्धेषु । यथा च सर्वसेनविरचिते हरिविजये । यथा च मदीय एवार्जुनचरिते महाकाव्ये । कविना प्रबन्धमुपनिबध्नता सर्वात्मना रसपरतत्रेण भवितव्यम् । तत्रेतिवृत्ते यदि रसाननुगुणां स्थिति पश्येचां भङ्क्त्वापि खतन्त्रतया रसानुगुणं कथान्तरमुत्पादयेत् । न हि कवेरितिवृत्तमात्रनिर्वहणेन किंचित्प्रयोजनम् । इतिहासादेव तत्सिद्धेः । रसादिव्यञ्जकत्वे प्रबन्धस्य चेदमन्यन्मुख्यं निबन्धनं यत्संधीनां मुखप्रति
मपि संभवति । तत्र चेति । रसमयत्वसंपादने । सिद्धेति । सिद्ध आखादमात्रशेषो न तु भावनीयो रसो येषु । कथानामाश्रया इतिहासास्तैरितिहासाथैः सह खेच्छा न योज्या । कथंचिद्वा यदि योज्यते तत्तत्प्रसिद्धिविरुद्धा न योज्या । यथा रामस्य धीरललितत्वयोजनेन नाटिकानायकत्वं कुर्यादिति त्वत्यन्तासमञ्जसम् । यदुक्तमिति । रामाभ्युदये यशोवर्मणा-'स्थितमिति यथा शय्यां-' । कालिदासेति । रघुवंशेऽजादीनां राज्ञां विवाहादिवर्णनं नेतिहासेषु निरूपितम् । हरिविजये कान्तानुनयनाङ्गत्वेन पारिजातहरणादि निरूपितमितिहासेषु दृष्टमपि । तथार्जुनचरितेऽर्जुनस्य पातालविजयादिवर्णितम्मतिहासप्रसिद्धम् । एतदेव युक्तमित्याह-कविनेति । संधी. नामिति । इह प्रभुसंमितेभ्यः श्रुतिस्मृतिप्रमृतिभ्यः कर्तव्यमिदमित्याज्ञामात्रपरमार्थेभ्यः शास्त्रेभ्यो ये न व्युत्पन्नाः, न चाप्यस्येदं वृत्तममुष्मात्कर्मण इत्येतं युक्तियुक्तकमैफलसंबन्धप्रकटनकारिभ्यो मित्रसंमितेभ्य इतिहासशास्त्रेभ्यो लब्धव्युत्पत्तयः, अथवावश्यव्युत्पाद्याः प्रजार्थसंपादनयोग्यताक्रान्तराजपुत्रप्रायास्तेषां हृदयानुप्रवेशमुखेन चतुवर्गोपायव्युत्पत्तिर्धारया (?) । हृदयानुप्रवेशश्च रसाखादमय एव । स च रसश्चतुर्वर्गो
१. 'कथाश्रयात्तु' क-ख. २. 'निदर्शनम्' क-ख. १. 'इतिहासादिष्वनिरूपितम्' क-ख.