SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ ३ उझ्योतः] ध्वन्यालोकः। १४७ नेयस्य च संभोगशृङ्गाराविषयत्वाचन परिहार इति चेत् , न । यद्यभिनयस्यैवंविषयस्यासह्यता तत्काव्यस्यैवंविषयस्य सा केन निवार्यते । तस्मादभिनेयार्थे च काव्ये यदुत्तमप्रकृते राजादेरुत्तमप्रकृतिभिर्नायिकाभिः सह ग्राम्यसंभोगवर्णनं तत्पित्रोः संभोगवर्णनमिव सुतरामसह्यम् । तथैवोत्तमदेवताविषयम् । न च संभोगशृङ्गारस्य सुरतलक्षण एवैकः प्रकारः, यावदन्येऽपि प्रभेदाः परस्परप्रेमदर्शनादयः संभवन्ति । ते कस्मादुत्तमप्रकृतिविषये न वर्ण्यन्ते । तस्मादुत्साहवद्रतावपि प्रकृत्यौचित्यमनुसतव्यम् । तथैव विस्मयादिषु । यत्त्वेवंविधे विषये महाकवीनामप्यसमीक्ष्यकारिता लक्ष्ये दृश्यते स दोष एव । स तु शक्तितिरस्कृतत्वात्तेषां न लक्ष्यत इत्युक्तमेव । अनुभावौचित्यं तु भरतादौ प्रसिद्धमेव । इयत्तूच्यते-भरतादिस्थितिं चानुवर्तमानेन महाकविप्रबन्धांश्च पर्यालोचयता खप्रतिभां चानुसरता कविनावहितचेतसा भूत्वा विभावाद्यौचित्यभ्रंशपरित्यागे परः प्रयत्नो विधेयः । औचित्यवतः कथाशरीरस्य वृतस्योत्प्रेक्षितस्य वा ग्रहो व्यञ्जक इत्यनेनैतत्प्रतिपादयति-यदितिहासादिषु रसवतीषु कथासु विविधासु सतीष्वपि यत्तत्र विभावाद्यौचित्यवत्कथाशरीरं तदेव ग्राह्यं नेतरत् । वृत्तादपि च कथाशरीरादुनेक्षिते विशेषतः प्रयत्नवता भवितव्यम् । तत्र बनवधानास्खलतः कवेरव्युत्पत्तिसंभावना महती भवति । परिकरश्लोकश्चात्र 'कथार्शरीरमुत्पाद्यवस्तु कार्य तथातथा । __ यथा रसमयं सर्वमेवैतत्प्रतिभासते ॥' रसवतीष्वित्यनादरे सप्तमी । रसवत्त्वं चाविवेचकजनाभिप्रायेण च मन्तव्यम् । विभावाद्यौचित्येन हि विना का रसवत्ता कवेरिति । तस्माद्विभावाद्यौचित्यमेव रसवत्ताप्रयोजक नान्यदिति भावः । नहि तत्रेति । [इतिहासवशादेवं मया निबद्धमिति जात्यन्तर १. 'असत्यता' क-ख. २. 'उत्तमस्त्रीमिः सह' ग. ३. 'वर्णनवत्सुतरामसभ्यम्' क-ख. ४. 'यावदन्ये च परस्परप्रेमदर्शनादयः प्रभेदाः सन्ति' ५. 'तस्मात्' ग. ६. 'औचित्यवता' क-ख. ७. 'तां स्थिति वानुवर्तमानेन वृत्तादपि कथा' क-ख. ८. शरीरात्' क-ख. १. 'चाविवेकेनामिमानाभि' ग.
SR No.023466
Book TitleDhvanyaloak
Original Sutra AuthorN/A
AuthorAnandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1928
Total Pages258
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy