________________
'काव्यमाला।
अत एव च भरते प्रबन्धप्रख्यातवस्तुविषयत्वं प्रख्यातोदात्तनायकत्वं च नाटकस्यावश्यकर्तव्यतयोपन्यस्तम् । तेन हि नायकौचित्यानौचित्यविषये कर्तव्ये कविन विमुंह्यति । यस्तूत्पाद्यवस्तु नाटकादिकुर्यात्तस्याप्रसिद्धानुचितनायकखभाववर्णने महान्प्रमादः । ननु यद्युत्साहादिभाववर्णने कथंचिदिव्यमानुष्याद्यौचित्यपरीक्षा क्रियते तक्रियताम्, रत्यादौ तु किं तया प्रयोजनम् । रतिर्हि भारतवर्षोचितेनैव व्यवहारेण दिव्यानामपि वर्णनीयेति स्थितिः । नैवम् । तत्रौचित्यातिक्रमेण सुतरां दोषः । तथा ह्यधमप्रकृत्यौचित्येनोत्तमप्रकृतेः शृङ्गारोपनिबन्धने का भवेन्नोपहास्यता । विविध प्रकृत्यौचित्यं भारते वर्षेऽप्यस्ति शृङ्गारविषयम् । यत्त्वन्यदिव्यमौचित्यं त [द]त्रानुपकारकमेवेति चेत् , न वयं दिव्यमौचित्यं शृङ्गारविषयमन्यत्किंचिद्रूमः । किं तर्हि भारतवर्षविषये यथोत्तमनायकेषु राजादिषु शृङ्गारोपनिबन्धस्तथा दिव्याश्रयोऽपि शोभते । न च राजादिषु प्रसिद्धग्राम्यशृङ्गारोपनिबन्धनं प्रसिद्ध नाटकादौ । तथैव देवेषु तत्परिहर्तव्यम् । नाटकादेरभिनेयत्वादभि
पू...."पि न संप्रत्ययोपारूढमसत्यतया चकास्ति । अत एव तस्यापि यदा प्रभावान्तरमुत्प्रेक्ष्यते तदा तादृशमेव न त्वसंभावनास्पदं वर्णनीयमिति । तेन हीति । प्रख्यातो. दात्तनायकवस्तुत्वेन न व्यामुह्यतीति किं वर्णनीयमिति । यस्त्विति कविः । महान्प्रमाद इति तेनोत्पाद्यवस्तु नाटकादि निरूपितं मुनिनेति न कर्तव्यमिति तात्पर्यम् । आदिशब्दः प्रकारे त्वित्येवमादेः (१) प्रसिद्धदेवचरितस्य न संग्रहोऽर्थः । अन्यस्तु–'उपलक्षणमुको बहुव्रीहिरिति प्रकरणमात्रोक्तम् , इत्याह । 'नाटकादि' इति वा पाठः । तेदादिग्रहणं प्रकारसूचकम् । तेन मुनिनिरूपिते नाटिकालक्षणे प्रकरणनाटकायोगादुत्पाद्यं वस्तु । 'नायको नृपतिः' इत्यत्र यथासंख्येन प्रख्यातोदात्तनृपतिनायकत्वं बोर्द्धव्यमिति भावः । कथं तर्हि संभोगशृङ्गारः कविना निबध्यतामित्याशक्याह-नन्विति । तथैवेति । मुनिनापि स्थाने प्रकृत्यौचित्यमेव विभावानुभावादिषु बहुतरं प्रमाणीकृतं 'स्थैर्येणोत्तममध्यमाश्रमाणां नीचानां संभ्रमण' इत्यादिवदता इयत्त्विति । लक्षणज्ञत्वं लक्ष्यपरिशीलनमदृष्टप्रसादोदितखप्रतिभाशालित्वं चानुसर्तव्यमिति संक्षेपः ।
१. 'कर्तव्ये' ग-पुस्तके नास्ति. २. 'व्यामुह्यति' ग. ३. 'यत्त दिव्यं' ग. ४. 'शझार उपनिबद्धः' क-ख. ५. 'अप्रसिद्धग्राम्यसंभोगशृङ्गार' क-ख. ६. 'परिहातव्यम् क. ७. 'अमिनेयार्थत्वात्तत्र परिहारः' ग. - १. 'नाटिकादि' क-ख. २. 'अत्रादि' क-ख. ३. 'नाट्ययोगात्' क-ख. ४. 'बोध्यम्' ग. ५. 'इयं त्वित्यादिना' क-ख. ६. 'चानुमन्तव्यम्' क-ख.