________________
३ उयोतः] ध्वन्यालोकः।
१४५ संचारी वा तदौचित्यचारुणः कथाशरीरस्य विधिळञ्जकत्वे निबन्धनमेकम् । तत्र विभावौचित्यं तावत्प्रसिद्धम् । भावौचित्यं तु प्रकृत्यौचित्यात् । प्रकृतिर्युत्तममध्यमाधमभावेन दिव्यमानुषादिभावेन च विभेदिनी । तां यथायथमनुसृत्यासंकीर्णः स्थायी भाव उपनिबध्यमान औचित्यवान्भवति । अन्यथा तु केवलमानुषाश्रयेण दिव्यस्य केवलदिव्याश्रयेण वा मानुषस्योत्साहादय उपनिबध्यमाना अनुचिता भवन्ति । तथा च केवलमानुषस्य राजादे. वर्णने सप्तार्णवलङ्घनादिलक्षणा व्यापारा उपनिबध्यमानाः सौष्ठवभृतोऽपि नीरसा एव नियमेन भान्ति । तत्र त्वनौचित्यमेव हेतुः । ननु नागलोकगमनादयः सातवाहनप्रभृतीनां श्रूयन्ते । तदलोकसामान्यप्रभावादतिशयवर्णने किमनौचित्यं सर्वोर्वीभरणक्षमाणां क्षमाभुजामिति नैतदस्ति । न वयं ब्रूमो यत्प्रभावातिशयवर्णनमनुचितं राज्ञाम्, किं तु केवलमानुषाश्रयेण योत्पाद्यवस्तुकथा क्रियते तस्यां दिव्यमौचित्यं न योजनीयम् । दिव्यमानुषायां तु कथायामुभयमौचित्ययोजनमविरुद्धमेव । यथा पाण्डादिकथायाम् । सातवाहनादिषु तु येषु यावर्दैपदानं श्रूयते तेषु तावन्मात्रमनुगम्यमानमनुगुणत्वेन प्रतिभासते । व्यतिरिक्तं तु तेषामेवोपनिबध्यमानमनुचितम् । तदयमत्र परमार्थः
'अनौचित्यादृते नान्यद्रसभङ्गस्य कारणम् । प्रसिद्धौचित्यबन्धस्तु रसस्योपनिषत्परा ।'
यस्यामृतुमाल्यादेविभावस्य लीलादेरनुभावस्य हर्षवृत्त्यादेः संचारिणः स्फुटमेव संभव इत्यर्थः । प्रसिद्धमिति लोके भरतशास्त्रे च । व्यापार इति । तद्विषयोत्साहोपलक्षणमेतत् । स्थाय्यौचित्यं हि व्याख्येयत्वेनोपक्रान्तं नानुभावौचित्यम् । सौष्ठवभृतो. ऽपीति । वर्णनामहिनेत्यर्थः । तत्र विति नीरसत्वे । व्यतिरिक्तं त्विति । अधिकमित्यर्थः । एतदुक्तं भवति यत्र विनेयानां प्रतीतिखण्डना न जायते तादृग्वर्णनीयम् । तत्र केवलमानुष एकपदे सप्तार्णवलइनमसंभाव्यमानतयानृतमिति हृदये स्फुरदुपदेश्यस्य च...पा." स्याप्यलोकतां बुद्धौ निवेशयति । रामादेस्तु तथाविधमपि चरितं ...१. 'ह्युत्तमाधमभावेन' ग. २. 'दिव्यस्योत्तम' ग. ३. 'मनुष्यस्य' ख, 'केवलमनुष्यस्य' ग. ४. 'आपादनं' ग. ५. 'तदेव' क-ख. . .. १. 'यथा' क-ख. २. 'सद्भावः' क-ख. ३. 'स्फुरदुपदेशस्य चतुर्वर्गोपचरितसंप्रत्ययोपारूढ' क-ख.
-
-