SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ १४४ काव्यमालाः । कायां नात्यन्तमसमासा स्वविषयेऽपि नाटकादौ नातिदीर्घसमासा चेति संघटना या दिगनुसर्तव्या । ' इति काव्यार्थ विवेको योऽयं चेतश्चमत्कृतिविधायी । सूरिभिरनुसृतसारैरस्मदुपज्ञो न विस्मार्यः ॥' इति । इदानीमलक्ष्यक्रमव्यङ्ग्यो ध्वनिः प्रबन्धात्मा रामायण महाभारतादौ प्रकाशमानः प्रसिद्ध एव । तस्य तु यथा प्रकाशनं तत्प्रतिपाद्यते - विभावभावानुभावसंचार्यौचित्यचारुणः । विधिः कथाशरीरस्य वृत्तस्योत्प्रेक्षितस्य वा ॥ १० ॥ इति वृत्तर्वेशायातां त्यक्त्वाननुगुणां स्थितिम् । उत्प्रेक्ष्योऽप्यन्तराभीष्टर सोचितकथोन्नयः ॥ ११ ॥ संधिसंध्यङ्गघटनं रसामिव्यक्त्यपेक्षया । न तु केवलया शास्त्रस्थितिसंपादनेच्छया ।। १२ ॥ उद्दीपन प्रशमने यथावसरमन्तरा । रसस्यारब्धविश्रान्तेरनुसंधानमङ्गिनः ॥ १३ ॥ अलंकृतीनां शक्तावप्यानुरूप्येण योजनम् । प्रबन्धस्य रसादीनां व्यञ्जकत्वे निबन्धनम् ॥ १४ ॥ प्रबन्धोऽपि रसादीनां व्यञ्जक इत्युक्तं तस्य व्यञ्जकत्वे निबन्धनम् । प्रथमं तावद्विभावभावानुभावसंचार्यौचित्यचारुणः कथाशरीरस्य विधिर्य - थायथं प्रतिपिपादयिषितरसभावाद्यपेक्षया य उचितो विभावो भावोऽनुभावः संबन्धः । एवं संघटनायां च लक्ष्यक्रमो दीप्यत इति निर्णीतम् । प्रबन्धे दीप्यत इति तु निर्विवादसिद्धोऽयमर्थं इति नात्र वक्तव्यं किंचिदस्ति । केवलं कविसहृदयान्व्युत्पादयितुं रसव्यञ्जनयेतिकर्तव्यताप्रबन्धस्य सा निरूप्येत्याशयेनाह - इदानीमिति । इदानीं तत्प्रकारजातं प्रतिपाद्यत इति संबन्धः । प्रथमं तावदिति (ह) प्रबन्धस्य व्यञ्जकत्वे ये प्रका रास्ते क्रमेणैवोपयोगिनः । पूर्वं हि कथापरीक्षा । तत्राधिकावापः फलपर्यन्तानयनम् । रसं प्रति जागरणम् । तदुचितविभावादिवर्णनेऽलंकारौचित्यमिति । क्रमेण व्याचष्टे - विभाषेत्यादिना । तदौचित्येति । शृङ्गारवर्णनेच्छुना तादृशी कथा १. इयमार्या क-ख-पुस्तकयोर्नाति २. 'ध्वनिप्रबंन्धो रामायण' ग. ३. ' तथा ' ग. ४. ‘वशायत्तां’ ख. ५. 'यथा वा रसमन्तरा' क ख ६. 'प्रतिपिपादयिष्यते' ख. १. 'सहृदयान्यप्युत्पादयितुं' ग. २. ' तथा ' क- ख.
SR No.023466
Book TitleDhvanyaloak
Original Sutra AuthorN/A
AuthorAnandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1928
Total Pages258
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy