SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ १ उक्ष्योतः] ध्वन्यालोकः। तिनिमित्ता काचिच्चारुत्वनिष्पत्तिरिति न प्राधान्यम् । पर्यायोक्तेऽपि यदि प्राधान्येन व्यङ्ग्यत्वं तद्भवतु नाम तस्य ध्वनावन्तर्भावः । न तु ध्वनेस्तत्रान्तर्भावः । तस्य महाविषयत्वेनाङ्गित्वेन च प्रतिपिपादयिष्यमाणत्वात् । न पुनः पर्यायोक्ते भामहोदाहृतसदृशे व्यङ्गयस्यैव प्राधान्यम् । वाच्यस्य मनबुद्ध्या संकोचं नात्यजत्' इति तदपि निमित्तं चारुखहेतुतया नालंकारकृद्भिः कल्पितम् । अपि तु विशेषोक्तिभाग एव न शिथिलयतीति एवंभूतोऽभिव्यज्यमाननिमित्तोपस्कृतश्चारुत्वहेतुः । अन्यथा तु विशेषोक्तिरेवेयं न भवेत् । एवमभिप्रायद्वयमपि साधारणोक्त्या ग्रन्थकृश्यरूपयत् । न लौद्भटेनैवाभिप्रायेण ग्रन्थो व्यवस्थित इति मन्तव्यम् । पर्यायोक्तेऽपीति । 'पर्यायोक्तं यदन्येन प्रकारेणाभिधीयते । वाच्यवाचकवृत्तिभ्यां शून्येनावगमात्मना ॥' इति लक्षणम् । यथा—'शत्रुच्छेददृढेच्छस्य मुनेरुत्पथगामिनः । रामस्यानेन धनुषा देशिता धर्मदेशना ॥' इति । अत्र भीष्मस्य भार्गवप्रभावाभिभावी प्रताप इति यद्यपि प्रतीयते तथापि तत्सहायेन देशिता धर्मदेशनेत्यभिधीयमानेनैव वाक्यार्थोऽलंकृतः । अत एव पर्यायेण प्रकारान्तरेणावगमात्मना व्यङ्गयेनोपलक्षितं संघदभिधीयते तदभिधीयमानमुक्तमेव सत्पर्यायोक्तमेवाभिधीयत इति लक्षणपदम् , पर्यायोक्तमिति लक्ष्यपदम् , अर्थालंकारत्वं सामान्यलक्षणं 'चेति सर्वं युज्यते । यदि खभिधीयते इत्यस्य बलाद्याख्यानमभिधीयते प्रतीयते प्रधानतयेति, उदाहरणं च 'भम धम्मिअ-' इत्यादि । तदालंकारत्वमेव दूरे संपन्नम् । आत्मतायां पर्यवसानात् । तथा चालंकारमध्ये गणना न कार्या । मेदान्तराणि चास्य वक्तव्यानि । तदाह यदि प्राधान्येनेति । ध्वनाविति । आत्मन्यन्त वादात्मैवासौ नालंकारः स्यादित्यर्थः । तत्रेति । याहशोऽलंकारत्वेन विवक्षितस्तादृशे ध्वनिर्नान्तर्भवति । न तादृगस्माभिर्ध्वनिरुक्तः । ध्वनिर्हि महाविषयः सर्वत्रभावाद्यापकः समस्तप्रतिष्ठास्थानवाच्चाङ्गी । न चीलंकारो व्यापकोऽन्यालंकारवत् । न चाङ्गी । अलंकार्यतन्त्रवात् । अथ व्यापकत्वाङ्गिले तस्योपगम्येते, त्यज्यते चालंकारता तस्मिन्नय एवायमवलम्बते केवलं मात्सर्यग्रहात्पर्यायोक्तभागिति भावः । न चेयदपि प्राक्तनैदृष्टमपि खस्माभिरेवोन्मीलितमिति दर्शयति-न पुनरिति । भामहस्य यादृक्तदीयं रूपमभिमतं तादृगुदाहरणेन दर्शितम् । तत्रापि नैव व्यङ्ग्यस्य प्राधान्यम् । चारुवाहेतुवात् । तेन तदनुसारितया तत्सदृशं यदुदाहरणान्तरमपि कल्प्यते तत्र नैव व्यङ्ग्यस्य प्राधान्यमिति संगतिः । यदि तु तदु १. 'नाम' ग-पुस्तके नास्ति. १. 'विभज्यमान' क-ख. २. 'दर्शिता' ग. ३. 'काव्यार्थो' ग. ४. 'यद्यदभि' ग. ५. 'च' ग-पुस्तके नास्ति. ६. 'तदा' क-ख. ७. 'आत्मनि' क-ख-पुस्तकयो स्ति. ८. 'तत्रेति' ग-पुस्तके नास्ति. ९. 'तादृशो' ग. १०. 'न वा' ग. ११. 'व्यापकाङ्गिवे' ग. १२. 'लम्ब्य ते न केवलं' क-ख. १३. 'चेदमपि' ग. १४. 'तत्र चैव न' क-ख.
SR No.023466
Book TitleDhvanyaloak
Original Sutra AuthorN/A
AuthorAnandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1928
Total Pages258
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy