SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ ३८ काव्यमाला । यथा च दीपकापहुत्यादौ व्यङ्ग्यत्वेनोपमायाः प्रतीतावपि प्राधान्येनाविवक्षितत्वान्न तया व्यपदेशस्तद्वदत्रापि द्रष्टव्यम् । अनुक्तनिमित्तायामपि विशेषोक्तौ - 'आहूतोऽपि सहायैरे मीत्युक्त्वा विमुक्तनिद्रोऽपि । गन्तुमना अपि पथिकः संकोचं नैव शिथिलयति ॥' इत्यादौ व्यङ्ग्यस्य प्रकरणसामर्थ्याप्रतीतिमात्रम् । न तु तत्प्रेती - एवं प्राधान्यविवक्षायां दृष्टान्तमुक्त्वा व्यपदेशोऽपि प्राधान्यकृत एव भवतीत्यत्र दृष्टान्तं खपरप्रेसिद्धमाह - यथा चेति । उपमाया इति । उपमानोपमेयभावस्येत्यर्थः । तयेत्युपमया । दीपके हि 'आदिमध्यान्तविषयं त्रिधा दीपकमिष्यते' इति लक्षणम् । तंत्र दीपकेनैव शोभा यथा - 'मणिः शाणोलीढः समरविजयी हेतिदलितः कलाशेषश्चन्द्रः सुरतमृदिता बालैललना । मदक्षीणो नागः शरदि सरिदाश्यानपुलिना तनिम्ना शोभन्ते गलितविभवाश्चार्थिषु जैनाः ॥' इत्यत्र दीपककृतमेव चारुत्वम् । 'अपह्नुतिरभीष्टस्य किंचिदर्थंगतोपमा' इति । तंत्रापहृत्यैव शोभा यथा - 'नेयं विरौति भृङ्गाली मदेन मुखरा मुहुः । अयमाकृष्यमाणस्य कंदर्पधनुषो ध्वनिः ॥' इति । एवमाक्षेपं विचार्येौद्देशक्रमेणैव प्रमेयान्तरमाह - अनुक्तनिमित्तायामिति । 'एकदेशस्य विगमे या गुणान्तरसंस्तुतिः । विशेषप्रथनायासौ विशेषोक्तिरिति स्मृता ॥' यथा - 'स एकत्रीणि जयति जगन्ति कुसुमायुधः । हरतापि तनुं यस्य शंभुना न हृतं बलम् ॥' इयं चाचि - न्त्यनिमित्तेति नास्यां व्यङ्ग्यस्य सद्भावः । उक्तनिमित्तायमपि वस्तुस्वभावमात्रे तु पर्यवसानमिति तत्रापि न व्यङ्ग्यसद्भावशङ्का । यथा - ' - 'कर्पूर इव दग्धोऽपि शक्तिमान्यो जने जने । नमोऽस्त्ववार्यवीर्याय तस्मै कुसुम धन्वने ॥' तेन प्रकारद्वयमवधार्य तृतीयं प्रकारमाशङ्कते – ( अनुक्तनिमित्तायामपीति । ) व्यङ्ग्यस्येति । शीतकृता खल्वार्तिरत्र निमित्तमिति भट्टोद्भटः । तदभिप्रायेणाह — न त्वत्र काचिच्चरुत्वनिष्पत्तिः इति । यत्तु रसिकैरपि निमित्तं कल्पितम् — 'कान्तासमागमे लघुतरमुपायं स्वप्नं मन्यमानो निद्राग १. 'ओमित्युक्त्वा' ग. २. 'तत्' क-ख- पुस्तकयोर्नास्ति. १. ‘अपि’ क-ख-पुस्तकयोर्नास्ति. २. 'सिद्धं' क- ख. ३. 'यथा चैतद्रूपाया' इति ग. ४. 'तत्र दीपकेनैव शोभा' ग-पुस्तके नास्ति ५. 'वनिता' ग. ६. 'नराः' ग. ७. ‘अन्तगता' ग. ८. 'इति' क-ख- पुस्तकयोर्नास्ति. ९. ' तत्रापह्नवेनैव' ग. १०. 'निगमे ' क-ख. ११. ‘अपि’ ख- पुस्तके नास्ति. १२. 'वस्तुस्वभावे पर्यवसितम्' ग. १३. 'तथापि ' क-ख. १४. ‘चारुत्वहानिः ' क ख १५. 'न मनागपि लघुतर' क- ख.
SR No.023466
Book TitleDhvanyaloak
Original Sutra AuthorN/A
AuthorAnandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1928
Total Pages258
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy