SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ १ उक्ष्योतः] ध्वन्यालोकः। पाभिधानेच्छया प्रतिषेधरूपो य आक्षेपः स एव न्यङ्ग्यविशेषमाक्षिपन्मुख्यं काव्यशरीरम् । चारुत्वोत्कर्षनिबन्धना हि वाच्यव्यङ्ग्ययोः प्राधान्यविवक्षा । यथा 'अनुरागवती संध्या दिवसस्तत्पुरःसरः । अहो दैवगतिः कीहक्तथापि न समागमः ॥' अत्र सत्यामपि व्याजयप्रतीतौ वाच्यस्यैव चारुत्वमुत्कर्षवदिति तस्यैव प्राधान्यविवक्षा। पुनर्मारवः ॥' अत्र कश्चित्सेवकः प्राप्यमस्मात्किमिति न प्रतिलेभे इत्पन्तर्विषद्यमानहृदयः केनचिद्विडम्बनाक्षेपेण प्रतिबोध्यते । तत्राक्षेपेण निषेधरूपेण वाच्यस्यैवासत्पुरुषसेवातद्वैफल्यकृतोद्वेगात्मनः शान्तरसस्थायिभूतनिर्वेदविभावानुभावरूपतया चमत्कृतित्वम् । वामनस्य तु 'उपमानाक्षेपः' इत्याक्षेपलक्षणम् । उपमानस्य चन्द्रादेराक्षेपः । 'अस्मिन्सति किं वया कृतम्' इति । यथा-'तस्यास्तन्मुखमस्ति सौम्यसुभगं किं पार्वणेनेन्दुना सौन्दर्यस्य पदं दृशौ यदि च तैः किं नाम नीलोत्पलैः । किं वा कोमलकान्तिभिः किसलयैः सत्येव तत्राधरे हे यान्तः (धातः) पुनरुक्तवस्तुरचनारम्भेष्वपूर्वो ग्रहः ॥' अत्र व्यङ्ग्योऽप्युपमार्थो वाच्यस्यैवोपस्कुरुते किं तेन कृत्यमिति । अपहस्त्रनारोप (8) आक्षेपो वाच्य एव चमत्कारकारणम् । यदि वोपमानस्याक्षेपः सामर्थ्यादाकर्षणम् । यथा'ऐन्द्रं धनुः पाण्डुपयोधरेण शरद्दधानानखक्षताभम् । प्रसादयन्ती सकलङ्कमिन्दुं तापं रवेरभ्यधिकं चकार ॥' इत्यत्रेाकलुषितनायिकान्तरमुपमानमाक्षिप्तमपि वाच्यार्थमेवालंकरोतीयेषा समासोक्तिरेव । तदाह-चारुत्वोत्कर्षेति । अत्रैव प्रसिद्धं दृष्टान्तमाह-अनुरागवतीति । तेनाक्षेपेण प्रमेयसमर्थनमेव परिसमाप्तमिति मन्तव्यम् । तत्रोदाहरणेन समासोक्तिश्लोकः पठितः । अहो दैवगतिः कीदृगिति । गुरुपारतच्यादिनिमित्तोऽसमागम इत्यर्थः । तस्यैवेति । वाच्यस्यैवेति यावत् । वामनाभिप्रायेणायमाक्षेपः, भामहाभिप्रायेण तु समासोक्तिरित्यमुमाशयं हृदये गृहीला समासोक्त्याक्षेपयोरिदमेकमेवोदाहरणं व्यतरद्धन्थकृत् । एषोपि समासोतिर्वास्तु औक्षेपो वा । किमनेनास्माकम् । सर्वथालंकारादिषु व्यङ्ग्यं वाच्ये गुणीभवतीति नः साध्यमित्यत्राशयोऽत्र ग्रन्थेऽस्मद्गुरुभिर्निरूपितः। १. 'निबन्धनाभिदा' ग. २. 'चित्रा' क-ख-ग. १. 'प्राप्तः प्राप्तव्यं' ग. २. 'लमे इति प्रत्याशाविशस्यमानहृदयः' ग. ३. 'तद्वैफल्यतः' क-ख. ४. 'ते' ग. ५. 'इति । एषा तु' ग. ६. 'तेनाक्षेपप्रमेयसमर्थनमेवापरि' ग. ७. 'तत्र तूदाहरणलेन' ग. ८. 'तावत्' क-ख. ९. 'तु' क-ख-पुस्तकयोर्नास्ति. १०. 'अमुं' ग-पुस्तके नास्ति. ११. 'युक्त्यैवेदमेकं' ग. १२. 'अपि' गपुस्तके नास्त्रि. १३. 'आक्षेपोक्तिर्वा' ग. १४. 'समासोक्त्यादिषु सिद्धालंकारेषु' ग. १५. 'अस्मद्' क-ख-पुस्तकयो स्ति.
SR No.023466
Book TitleDhvanyaloak
Original Sutra AuthorN/A
AuthorAnandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1928
Total Pages258
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy