SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ काव्यमाला इत्यादौ व्यङ्ग्येनानुगतं वाच्यमेवं प्राधान्येन प्रतीयते । समारोपितनायिकानायकव्यवहारयोर्निशाशशिनोरेव वाक्यार्थत्वात् । आक्षेपेऽपि व्यङ्ग्यविशेषाक्षेपिणो वाच्यस्यैव चारुत्वम् । प्राधान्येन वाक्यार्थ आक्षेपोक्तिसामर्थ्यादेव ज्ञायते । तत्र शब्दोपारूढरूपो विशे तु अपिशब्दो लक्षितमित्यस्यानन्तरः । अत्र च नायकेन पश्चाद्गतेन चुम्बनोपक्रमे पुरो नीलांशुकस्य गलनं पतनम् । यदि वा पुरोऽग्रे नायकेन तथा गृहीतं मुखमिति संबन्धः । तेनात्र व्यङ्गये प्रतीतेऽपि न प्राधान्यम् । ततोऽपि नायकव्यवहारो निशाशशिनावेव शृङ्गारविभावरूपौ संस्कुर्वाणोऽलंकारतां भजते । ततस्तु वाच्याद्विभावीभूताद्रसनिःष्पन्दः । यस्तु व्याचष्टे-'तया निशयेति कर्तृपदम् । न चाचेतनायाः कर्तृसमुपपन्नमिति शब्देनैवात्र नायकव्यवहार उन्नीतोऽभिधेय एव, न व्यङ्ग्य इत्यत एव समासोक्तिः' इति । स प्रकृतार्थमेव ग्रन्थार्थमत्यजत् । व्यङ्गयेनानुगतमिति । एकदे. शविवर्ति चेत्थं रूपकं स्यात् । 'राजहंसैरवीज्यन्त शरदैव सरोनृपाः' इतिव॑त् । न तु समासोक्तिः । तुल्यविशेषणाभावाद्गम्यत इति चानेनाभिव्यापारनिरासात् । इत्यलमवान्तरेण बहुना । नायिकाया नायके यो व्यवहारः स निशायां समारोपितः । नायिकायां नायकस्य यो व्यवहारः स शशिनि समारोपित इति व्याख्याने न कोऽपि दोषप्रसङ्गः । आक्षेप इति । 'प्रतिषेध इवेष्टस्य यो विशेषाभिधित्सया । वक्ष्यमाणोकविषयः स आक्षेपो द्विधा मतः ॥' तत्राद्यो यथा-'अहं खां यदि नेक्षेय क्षणमप्युत्सुका ततः । इयदेवास्वतोऽन्येन किमुक्ताप्रियेण ते ॥' इति वक्ष्यमाणमरणविषयो निषेधात्माक्षेपः । तत्रेयदस्वित्येतदेवात्र म्रिये इत्याक्षिपत्सच्चारुत्वनिबन्धनमित्याक्षेप्येणाक्षेपमलंकृतं सत्प्रधानम् । उक्तविषयस्तु यथा ममैव-'भो भोः किं किमकाण्ड एव पतितस्त्वं पान्थ कान्या गतिस्तत्तादृक्तृषितस्य मे खेलमतिः सोऽयं जलं गूहते । अस्थानोपनतामकालसुलभां तृष्णां प्रति क्रुध्य भोस्त्रैलोक्यप्रथितप्रभावमहिमा मार्गः - ३. 'क्षेपिणोऽपि' ग. १. “एव' क-ख-पुस्तकयो स्ति. २. 'हि' क-ख. ४. 'वाच्यार्थ' ग. ५. 'तथाहि तत्र हि' ग. १. 'तु' क-ख-पुस्तकयो स्ति. २. 'तेनाप्यत्र' ग. ३. 'संस्कुर्वाणावलंकारतां' ग. ४. 'आनीतो' क-ख. ५. 'शरदीव' क-ख. ६. 'वत्' ग-पुस्तके नास्ति. ७. 'न एकशेषप्रसङ्गः' ग. ८. "प्रियेण' क-ख. ९. 'यत इयदस्तु इत्येतदेवात्र म्रियत इत्यस्याक्षेपकं सत्' ग. १०. 'सत्त्वप्रधानम्' ग. ११. 'ममैव' ग-पुस्तके नास्ति. १२. 'जडमतिः' ग. १३. 'क्रुध्यतः' क-ख.
SR No.023466
Book TitleDhvanyaloak
Original Sutra AuthorN/A
AuthorAnandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1928
Total Pages258
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy