SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ १३४ काव्यमाला। कैश्चित्तां केवलमनूबेदमुच्यते गुणानाश्रित्य तिष्ठन्ती माधुर्यादीन्व्यनक्ति सा । रसस्तनियमे हेतुरौचित्यं वक्तृवाच्ययोः ॥ ६॥ __संघटना रसादीन्व्यनक्ति गुणानाश्रित्य तिष्ठन्तीति । अत्र च विकल्प्यं गुणानां संघटनायाश्चैक्यं व्यतिरेको वा । व्यतिरेकेऽपि द्वयी गतिर्बोद्धव्यागुणाश्रया संघटना, संघटनाश्रया वा गुणा इति । तत्रैक्यपक्षे संघटनाश्रयगुणपक्षे च गुणानात्मभूतानाधेयभूतान्वाश्रित्य तिष्ठन्ती संघटना रसादीन्व्यनक्तीत्ययमर्थः । यदा तु नानात्वपक्षो गुणाश्रयः संघटनापक्षश्च तदा गुणानाश्रित्य तिष्ठन्तीति गुणपरतत्रस्वभावा न तु गुणरूपैवेत्यर्थः । किं पुनरेवं विकल्पनस्य प्रयोजनमित्यभिधीयते । यदि गुणाः संघटना चेत्येक तत्त्वं संघटनाश्रया वा गुणास्तदा संघटनाया इव गुणानामनियतविषयत्वप्रसङ्गः । गुणानां हि माधुर्यप्रसादप्रकर्षः करुणविप्रलम्भशृङ्गारविषय एव । रौद्राद्भुतादिविषयमोजः । माधुर्यप्रसादौ रसभावतदाभासविषयावेवेति विषयनियमो व्यवस्थितः संघटनायास्तु से विघटते । तथा हि शृङ्गारेऽपि दीर्घसमासा दृश्यन्ते रौद्रादिष्वसमासाश्चेति । कारिकायां द्वितीयार्धस्याद्यं पदम् । 'रसास्तनियमे हेतूनौचित्यं वक्तृवाच्ययोः' इति कारिकार्धम् । बहुवचनेनायमर्थः संगृहीत इति दर्शयति-रसादीनिति । अत्र चेति । अस्मिन्नैव कारिकार्धे । विकल्पेनेदमर्थजातं कल्पयितुं व्याख्यातुं शक्यम् 'किं तदि. मिति त्रयः पक्षा ये संभाव्यन्ते व्याख्यातुं शक्याः कथमित्याह-तत्रैक्यपक्ष इति । आत्मभूतानिति । खभावस्य कल्पनया प्रतिपादनार्थं प्रदर्शितभेदस्याश्रयवाचोयुक्तिर्दयते । शिशपाश्रयं वृक्षवमित्याधेयभूतानिति । संघटनाया धर्मा गुणा इति भट्टोद्भटादयः । धमोश्च धम्याश्रिता इति प्रसिद्धो मार्गः । गुणपरतन्त्रेति । अत्र नाधाराधेयभाव आश्रयार्थः । नहि गुणेषु संघटना तिष्ठतीति । तेन राजाश्रयः प्रकृतिवर्ग इत्यत्र यथा राजाश्रयौचित्येनामात्यादिप्रकृतय इत्ययमर्थ एवं गुणेषु परतन्त्रखभावा तदायत्ता तन्मुखप्रेक्षिणी संघटनेत्ययमों लभ्यत इति भावः । भवत्वनियतविषयतेत्याशङ्कयाह-गुणानां हीति । हिशब्दस्तुशब्दार्थे । न..."खेवमुपपद्यते । स 'इति । योऽयं गुणेषु नियम उक्तोऽसावित्यर्थः । तथालेन लक्ष्यदर्शनमेव हेतुलेनाहतथा हीति । दृश्यत इत्युक्तं तत्र दर्शनस्थानमुदाहरणं सूत्रयति-तत्रेति । नात्र १. 'चैकं' ग. २. 'असौ' क-ख. १. 'रसास्तान्नियमे हेतुः' ग. २. 'किं तदि-शक्याः ' क-ख-पुस्तकयो स्ति. ३. 'दृश्यते' ख. ४. 'इत्येवमयं' ग.
SR No.023466
Book TitleDhvanyaloak
Original Sutra AuthorN/A
AuthorAnandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1928
Total Pages258
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy