________________
३ उक्ष्योतः] ध्वन्यालोकः।
तत्र शृङ्गारे दीर्घसमासा यथा-'मन्दारकुसुमरेणुपिञ्जरितालका'। इति । यथा वा
'अनवरतनयनजललवनिपतनपरिमुषितपत्रलेखान्तम् ।
करतलनिषण्णमबले वदनमिदं कं न तापयति ॥' इत्यादौ ।
तथा रौद्रादिष्वप्यसमासो दृश्यते यथा-'यो यः शस्त्रं बिभर्ति खभुजगुरुमदः-' इत्यादौ । तस्मान्न गुणाः संघटनाखरूपाः । न च संघटनाश्रया गुणाः । ननु यदि संघटना गुणानां नाश्रयस्तत्किमालम्बना एते परिकल्प्यन्ते । उच्यते-प्रतिपादितमेवैषामालम्बनम् ।
'तमर्थमवलम्बन्ते येऽङ्गिनं ते गुणाः स्मृताः ।
अङ्गाश्रितास्त्वलंकारा मन्तव्याः कटकादिवत् ॥' इति । अथवा भवन्तु शब्दाश्रया एव गुणाः । न चैषामनुप्रासादितुल्यत्वम् । यस्मादनुप्रासादयोऽनपेक्षितार्थविस्ताराः शब्दधर्मा एव । शब्दधर्मत्वं चैषामन्याश्रयत्वेऽपि शरीराश्रयत्वमिव शौर्यादीनाम् ।
शृङ्गारः कश्चिदित्याशक्य द्वितीयमुदाहरणमाह-यथा वेति । एषा हि प्रणयकुपितनायिकाप्रसादनायोक्ति यकस्येति । तस्मादिति । नैतद्याख्यानद्वयं कारिकायां युक्तमिति यावत् । किमालम्बना इति । शब्दार्थालम्बनले हि तदलंकारेभ्यः को विशेष इत्युक्तं चिरंतनैरिति भावः । प्रतिपादितमेवेति । अस्मन्मूलग्रन्थकृतेत्यर्थः। अथवेति । नयकाश्रितत्वेनैक्यम् । ऐक्य]रूपस्य संयोगस्य चैक्यप्रसङ्गात् । संयोगे द्वितीयमपेक्ष्यमिति चेत् । इहापि व्यङ्ग्योपकारकवाच्यानपेक्षास्त्येवेति समानम् । न चायं समवस्थितः पक्षः । अपि तु भववेषामविवेकिनामभिप्रायेणापि शब्दधर्मलं शौर्यादीनामिव शरीरधर्मलम् । अविवेकी हि उपचारकल विभागं विवेत्तुमसमर्थः । तथापि न कश्चिद्दोष इत्येवंपरमेतदुक्तं भवति । एतदाह-शब्दधर्मत्वमिति । अन्याश्रयलेऽपीति आत्मनिष्ठलेऽपीत्यर्थः । शब्दाश्रया इति । उपचारेण यदि शब्देषु गुणास्तत्रेदं तात्पर्यम्-शृङ्गारादिरसाभिव्यञ्जकवाच्यप्रतिपादनसामर्थ्यमेव शब्दस्य माधुर्यम् । तच्च शब्दगतं विशिष्टंघटनयैव लभ्यते । अर्थसंघटना नव्यतिरिक्ता काचित् । अपि तु संघटिता एव
१. 'परिकल्पन्ताम्' ग.
१. 'एकाश्रितलादेवैक्यं' क-ख. २. 'अनपेक्षस्यैवेति' क-ख. ३. 'अविवेकजना- . भिप्रायेण' क-ख. ४. 'अविवेके' क-ख. ५. 'तथापि तु न कश्चिद्दोषाश्रयः' ग. ६. 'विशिष्टैच घटना' क-ख.