SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ ३ उद्द्योतः ] ध्वन्यालोकः । १३३ मतः । तत्र शुद्धस्योदाहरणं यथा रामाभ्युदये - ' कृतककुपितैः' इत्यादि श्लोकः । एतद्धि वाक्यं परस्परानुरागं परिपोषप्राप्तं प्रदर्शयत्सर्वत एव परं रसतत्त्वं प्रकाशयति । अलंकारान्तरसंकीर्णो यथा - 'स्मरनवनदीपूरे णोढाः' इत्यादि श्लोकः । अत्र हि रूपकेण यथोक्तव्यञ्जकलक्षणानुगतेन प्रसाधितो रसः सुतरामभिव्यज्यते । अलक्ष्यक्रमव्यङ्ग्यः संघटनाया भासते ध्वनिरित्युक्तं तत्र संघटनाखरूपमेव तावन्निरूप्यते असमासा समासेन मध्यमेन च भूषिता । तथा दीर्घसमासेति त्रिधा संघटनोदिता ॥ ५ ॥ नवजलधरेत्यसोढपूर्वं प्रावृषेण्यजलदालोकनं विप्रलम्भोद्दीपनविभाववेनोक्तम् । जीवत्येवेति सोपेक्षभावता एवकारेण करुणावकाशनिरोकरणतयोक्ता । सर्वत एवेति । नात्रान्यतमस्य पदस्याधिकं किंचिद्रसव्यक्तिहेतुत्वमित्यर्थः । रसतत्त्वमिति विप्रलम्भटङ्गारात्मतत्त्वम् । ‘स्मैरनवनदी पूरेणोढाः पुनर्गुरुसेतुभिर्यदपि विधृता दुःखं तिष्ठन्त्यपूर्णमनोरथाः । तदपि लिखितप्रख्यैरङ्गैः परस्परमुन्मुखा नयननलिनानौलानीतं पिबन्ति रसं प्रियाः ॥' रूपकेणेति । स्मर एव नवनदीपूरः प्रावृषेण्यप्रवाहः । सरभसमेव प्रवृद्धत्वात् । तेनोढाः परस्परसांमुख्य मबुद्धिपूर्वमेव नीताः । अनन्तरं गुरवः श्वश्रूप्रभृतय एव सेतवः । इच्छाप्रसररोधकत्वात् । अथ च गुरवोऽलङ्घयाः सेतवस्तैः प्रतिहतेच्छाः । अत एवापूर्णमनोरथास्तिष्ठन्ति । तथापि परस्परोन्मुखतालक्षणेनान्योन्यतादात्म्येन स्वे देहे सकलवृत्तिनिरोधाल्लिखितप्रायैरङ्गैर्नयनान्येव नलिनीनालानि तैरानीतं रसं परस्पराभिलाषलक्षणमाखादयन्ति । परस्पराभिलाषात्मकदृष्टिच्छटामिश्रीकारयुक्त्यापि कालमतिवाहयन्तीति । ननु नात्र रूपकं निर्व्यूढम् । हंसचक्रवाकादिरूपेण नायकर्युंगलस्यारूपितत्वात् । ते हि हंसाद्या एकनलिनीनालानीतसलिल पाँनादिषूचिता इत्याशङ्कयाहयथोक्तव्यञ्जकेति । उक्तं हि पूर्वम्— 'विवशातत्परत्वेन' इत्यादौ 'नातिनिर्वहणेषिता' इति । प्रसाधित इति । विभावादिरूपभूषणद्वारेण रसोऽपि प्रसाधित इत्यर्थः । संघटनायामिति भावे प्रत्ययः । वर्णादिवच्च निमित्तमात्रे सप्तमी । उक्तमिति कारिकायाम् । निरूप्यत इति । गुणेभ्यो विविक्ततया विचार्यत इति यावत् । रसान १. ‘परस्परानुबद्धपरिपोषकतया प्राप्तं' क ख २. ' प्रसादितः ' क- ख. १. 'साक्षेपतैवोक्ता' क ख २. ' निराकरणायोक्तम्' ग. ३. 'स्मररस' क- ख. ४. • 'परस्परसंमुखं' क- ख. ५. 'नालाकृष्टं' ग. ६. 'युगलानां' क- ख. क्रीडादिसूचिता' क-ख. ८. ' इत्युक्तः ' ग. ७. प
SR No.023466
Book TitleDhvanyaloak
Original Sutra AuthorN/A
AuthorAnandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1928
Total Pages258
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy