SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ २३२ काव्यमाला । यथा वा 'झगिति कनकचित्रे तत्र दृष्टे कुरङ्गे __ रभसविकसितास्ते दृष्टिपाताः प्रियायाः । पवनविलुलितानामुत्पलानां पेलाश __ प्रकरमिव किरन्तः स्मर्यमाणा दहन्ति ॥' पदावयवेन द्योतनं यथा 'ब्रीडायोगान्नतवदनया संनिधाने गुरूणां __ बद्धोत्कम्पं कुचकलशयोर्मन्युमन्तर्निगृह्य । तिष्ठेत्युक्तं किमिव न तया यत्समुत्सृज्य बाष्पं मय्यासक्तश्चकितहरिणीहारिनेत्रत्रिभागः ॥' इत्यत्र त्रिभागशब्दः। वाक्यरूपश्चालक्ष्यक्रमव्यङ्गयो ध्वनिः शुद्धोऽलंकारसंकीर्णश्चेति द्विधा अपि लोचने विधुरे कांदिशीकतया नि..'क्षिपन्ती कस्त्राता वासावार्यपुत्र इति तयोर्लोचनयोस्तादृशी चावस्थेति सुतरां शोकोद्दीपनम् । क्रूरेणेति । तस्यायं स्वभाव एवेति । किं कुरुतां तथापि धूमेनान्धीकृतो द्रष्टमसमर्थ इति । न तु सविवेकस्येदृशानुचितकारिलं संभाव्यते इति स्मर्यमाणं तदीयं सौन्दर्यमिदानीं सातिशयशोकावेशविभावतां प्राप्तमिति । शब्दे सति सर्वोऽयमों निरूढ एवेति तत्र तत्र व्याख्यातव्यम् । त्रिभाग इति गुरुजनमवधीर्यापि सा मां यथा तथापि साभिलाषमन्यदैन्यगर्भमधुरं विलोकितवतीत्येवं स्मरणेन परस्परहेतुकलप्राणप्रवासविप्रलम्भोद्दीपनं त्रिभागशब्दसंनिधौ स्फुटं भातीति । वाक्यरूपश्चेति । प्रथमानिर्देशेनाव्यतिरेकनिर्देशस्यायमभिप्रायः । वर्णपदतद्भागादिषु सत्खेवालक्ष्यक्रमो व्यङ्ग्यो निर्भासमानोऽपि समस्तकाव्यव्यापक एव निर्भासते । विभावादिसंयोगप्राणत्वात् । तेन वर्णादीनां निमित्तलमात्रमेव । वाक्यं तु ध्वनेरलक्ष्यक्रमस्य न निमित्ततामात्रेण वर्णादिवदुपकारि । किं तु समग्रविभावादिप्रतिपत्तिव्यामृतत्ववद्रसादिनियममेव तन्निर्भासत इति । वाक्य इत्येतत्कारिकायां न निमित्तसप्तमीमात्रम् । अपि खन्यत्र भावविषयार्थमपीति । शुद्ध इत्यर्थालंकारेण केनाप्यसंमिश्रः । 'कृतककुपितेर्बाष्पाम्भोभिः सदैन्यविलोकितैर्वनमपि गता यस्य प्रीत्या धृतापि तथाम्बया । नवजलधरश्यामाः पश्यन्दिशो भवती विना कठिनहृदयो जीवत्येवे प्रिये स तव प्रियः ॥' अत्र तथा तैस्तैः प्रकारैर्मात्रा धृतापीत्यनुरागपरवशतेन गुरुवचनोल्लङ्घनमपि खया कृतमिति । प्रिये इति परस्परजीवितसर्वखाभिमानात्मको रतिस्थायिभाव उक्तः । १. 'च' क-ख. २. 'पलाशैः' क-ख. ३. क-ख-पुस्तकयोश्चतुर्थचरण एवास्य श्लोकस्यास्ति. १. 'निर्लज्जे' क-ख. २. 'सत्सु नालक्ष्य' क-ख ३. 'एष' ग.
SR No.023466
Book TitleDhvanyaloak
Original Sutra AuthorN/A
AuthorAnandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1928
Total Pages258
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy