SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ ३ उड्योतः] ध्वन्यालोकः। १३१ पदे चालक्ष्यक्रमव्यङ्ग्यस्य द्योतकत्वं यथा'उत्कम्पिनी भयपरिस्खलितांशुकान्ता ते लोचने प्रतिदिशं विधुरे क्षिपन्ती । क्रूरेण दारुणतया सहसैव दग्धा धूमान्धितेन दहनेन न वीक्षितासि ॥' अत्र हि ते इत्येतत्पदं रसमयत्वेन स्फुटमेवावभासते सहृदयानाम् । वृत्तिकारेण खन्वयपूर्वको व्यतिरेक इति शैलीमनुसत॒मन्वयः पूर्वमुपात्तः । एतदुक्तं भवति-यद्यपि विभावानुभावव्यभिचारिप्रतीतिसंपदेव रसास्वादे निबन्धनम्, तथापि विशिष्टश्रुतिकटुशब्दसमर्प्यमाणास्ते विभावादयस्तथा भवन्तीति खसंवित्सिद्धमदः । तेन वर्णानामपि श्रुतिसमयोपलक्ष्यमाणोऽर्थानपेक्ष्यपि श्रोत्रैकग्राह्यो मृदुपरुषात्मखभावो रसाखादे सहकार्येव । अत एव च सहकारितामेवाभिधातुं निमित्तसप्तमी कृता वर्णादिविति । न तु वगैरेव रसाभिव्यक्तिः । विभावादिसंयोगाद्धि रसनिष्पत्तिरित्युक्तं बहुशः। श्रोत्रैकग्राह्योऽपि च स्वभावो रसनिस्यन्दे व्याप्रियत एव । आपद्गीतवत् । पुष्करवाद्यनियमितविशिष्टजातिकरणघ्राणाद्यनुकरणशब्दवच्च । पदे चेति । पदे च सतीत्यर्थः । तेन रसप्रतीतिर्विभावादेरेव । तेन विभावादयो यदा विशिष्टेन केनापि पदेनाय॑माणरसचमत्कारविधायिनो भवन्ति तदा पदस्यैवासी महिमा समर्प्यत इति भावः । अत्र हीति । वासवदत्तादाहाकर्णनप्रबुद्धशोकनिर्भरस्य वत्सराजस्येदं परिदेवितवचनम् । तत्र च शोको नामेष्टजनविनाशप्रभव इति । तस्य जनस्य ये भ्रूक्षेपकटाक्षप्रभृतयः पूर्व रतिविभावतामवलम्बन्ते स्म त एवात्यन्तविनष्टाः सन्त इदानीं स्मृतिगोचरतया निरपेक्षभावत्वप्राणं करणमुद्दीपयन्तीति स्थिते ते लोचने इति तच्छब्दस्तल्लोचनगतखसंवेद्याव्यपदेश्यानन्तगुणगणस्मरणकारी द्योतको रसस्यासाधारणनिमित्ततां प्राप्तः । तेन यत्केनचिच्चोदितं परिहृतं च तन्मिथ्यैव । तथाहि चोद्यम्-प्रक्रान्तपरामर्शकस्य तच्छब्दस्य कथमियति सामर्थ्य मिति । उत्तरं च-रसाविष्टोऽत्र पॅरामृष्टेति (2)। तदुभयमनुत्थानोपहतम् । यत्र य॑नूद्दिश्यमानधर्मान्तरसाहित्ययोग्यधर्मयोगिवं वस्तुनो यच्छब्देनाभिधाय तद्बुद्धिस्थधर्मान्तरसाहित्यं तच्छब्देन निर्वाह्यते । यत्रोच्यते-'यत्तदोर्नित्यसंबन्धात्' इति तत्र पूर्व प्रक्रान्तपरामर्शकतच्छब्दस्य । यत्र पुनर्निमित्तोपस्मरणविशेषाकारसूचकलं तच्छब्दस्य सघट इत्यादौ यथा तत्र का प[रामर्श ]कथेत्यास्तामलीकपरामर्शकैः पण्डितंमन्यैः सह विवादेन । उत्कम्पिनीत्यादिना तदीयभयानुभावोत्प्रेक्षणम् । मया निर्वाहितप्रतीकारमिति शोकावेगस्य विभावतेति । सातिशयविभ्रमैकायतनरूपे १. 'धूमान्वितेन' क-ख. २. 'सहृदयानाम्' क-ख-पुस्तकयो स्ति. १. 'लक्ष्यमाणानर्था' क-ख. २. 'करणप्रभावाद्यनुहारशब्दवत्' ग. ३. 'अनपेक्षखभावल' ग. ४. 'स्मरणाकारद्योतको रसस्तस्यासाधारण' क-ख. ५. 'पतनपुष्टेति' क-ख. ६. 'अनुनेष्यमाण'. ग. ७. 'नित्याभि' ग. ८. 'मिथ्याविवादेन' ग.
SR No.023466
Book TitleDhvanyaloak
Original Sutra AuthorN/A
AuthorAnandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1928
Total Pages258
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy