________________
१३०
काव्यमाला |
विच्छित्तिशोभिनैकेन मूषणेनेव कामिनी । पदद्योत्येन सुकवेर्ध्वनिना भाति भारती ॥' इति परिकर श्लोकाः ।
यस्त्वलक्ष्यक्रमव्यङ्गयो ध्वनिर्वर्णपदादिषु । वाक्ये संघटनायां च स बन्धेऽपि दीप्यते ॥ २ ॥ तत्र वर्णानामनर्थकत्वाद्द्योतकत्व संभवीत्याशङ्कयेदमुच्यते— शौ सरेफसंयोगौ ढकारश्चापि भूयसा । विरोधिनः स्युः शृङ्गारे तेन वर्णा रेसच्युतः ॥ ३ ॥ तएव तु निवेश्यन्ते बीभत्सादौ रसे यदा । तदा तं दीपयन्त्येव तेन वर्णा रसच्युतः ॥ ४ ॥ श्लोकद्वयेनान्वयव्यतिरेकाभ्यां वर्णानां द्योतकत्वं दर्शितं भवति ।
'ध्वनिनिरूपितस्य पदमात्रावभासिनोऽपि पदप्रकाशस्यापि ध्वने रम्यतास्ति । स्मारक - वेऽपि पदानामिति समन्वयः । अपिशब्दः काकाक्षिन्यायेनोभयत्रापि संबध्यते । अधुना चारुत्वप्रतीतौ पदस्यान्वयव्यतिरेकौ दर्शयति - विच्छित्तीति । एवं कारिकां व्याख्याय तदसंगृहीतमलक्ष्यक्रमव्यङ्ग्यं प्रपञ्चयितुमाह-यस्त्विति । तुशब्दः पूर्वभेदेभ्योऽस्य विशेषद्योतकः । वर्णसमुदायश्च पदम् । तत्समुदायो वाक्यम् | संघटना पदगता वाक्यगता च । संघटितवाक्यसमुदायः प्रबन्ध इत्यभिप्रायेण वर्णादीनां यथाक्रममुपादानम् । आदिशब्देन पदैकदेशपदद्वितीयादीनां ग्रहणम् । सप्तम्या निमित्तत्वमुक्तम् । दीप्यतेऽवभासते सकलकाव्यावभासतयेति पूर्ववत्काव्यविशेषलं समर्थितम् । भूयसेति प्रत्येकमभिसंबध्यते । विरोधिन इति । परुषा वृत्तिविरोधिनी शृङ्गारस्य । यतस्ते -वर्णा भूयसा प्रयुज्यमाना न रेसांश्योतन्ति स्रवन्ति । यदि वा तेन शृङ्गारविरोधित्वेन हेतुना वर्णाः शषादयो रसाच्छृङ्गाराच्यैवन्ते तं न व्यञ्जयन्तीति व्यतिरेक उक्तः । अन्वयमाह -त एव विति शादयः । तमिति बीभत्सादिकं रसं दीपयन्ति । कारिकाद्वयं तात्पर्येण व्याचष्टे - श्लोकद्वयेनेति । यथासंख्यप्रसङ्गपरिहारार्थं श्लोकभ्यामिि कृतम् । पूर्वश्लोकेन हि व्यतिरेक उक्तो द्वितीयेनान्वयः । अस्मिन्विषये शृङ्गारलक्षणे शषादिप्रयोगः सुकवित्वमभिवाञ्छता न कर्तव्य इत्येवं फलत्वादुपदेशस्य कारिकाकारेण पूर्व व्यतिरेक उक्तः । न च सर्वथा न कर्तव्योऽपि तु बीभत्सादौ कर्तव्य एवेति पश्चादन्वयः ।
१. ‘प्रबन्धोऽभिधीयते' क ख २. 'न संभवति' ग. ३. 'रसश्युतः' ग.
१. ' रसादीन् ' ग. २. 'विरोधहेतुना' ग. ३. ‘प्रच्यवन्ते' क-ख. द्वयाभ्यां ग.
४. श्लोक