________________
काव्यमाल।
द्वितीय उद्योतः। एवमविवक्षितवाच्यविवक्षितान्यपरवाच्यत्वे ध्वनिर्द्धिप्रकारः प्रकाशितः । तत्राविवक्षितवाच्यस्य प्रभेदप्रतिपादनायेदमुच्यते
'अर्थान्तरे संक्रमितमत्यन्तं वा तिरस्कृतम् । अविवक्षितवाच्यस्य वनेर्वाच्यं द्विधा मतम् ॥१॥
द्विविधः' इति । सर्वेषामिति । लौकिकानां शास्त्रीयाणां चेत्यर्थः । अतिशयोक्त्येति । तथा 'तान्यक्षराणि हृदये किमपि स्फुरन्ति' इतिवदतिशयोक्त्यानाख्येयतोक्ता सारभूततां प्रतिपादयितुमिति शिवम् ।
कि लोचनं विना लोको भाति चन्द्रिकयापि हि । तेनाभिनवगुप्तोऽत्र लोचनोन्मीलनं व्यधात् ॥ यदुन्मीलनशक्त्यैव विश्वमुन्मीलति क्षणात् ।
खात्मायतनविश्रान्तां तां वन्दे प्रतिभां शिवाम् ॥ ... इति श्रीमहामाहेश्वराचार्यवभिनवगुप्तोन्मीलिते सहृदयालोक(ध्वन्यालोक)लोचने
ध्वनिसंकेते प्रथम उठ्योतः।
या स्मर्यमाणा श्रेयांसि सूते ध्वंसयते रुजः।
तामभीष्टफलोदारकल्पवल्लीं स्तुवे शिवाम् ॥ वृत्तिकारः · संगतिमुद्दयोतस्य कुर्वाण उपक्रमते-युवमित्यादि । प्रकाशित इति । मया वृत्तिकारेण सतेति भावः । न चैतन्मयोक्तम् , अपि तु कारिकाकाराभिप्रायेणेत्याह-तत्रेति । द्विप्रकारप्रकाशने वृत्तिकारकृते यन्निमित्तं बीजभूतमिति संबन्धः । यदिवा तत्रेति पूर्वशेषः । तत्रेति प्रथमोझ्योते वृत्तिकारेण प्रकाशितो विवक्षितवाच्यस्य यः प्रमेदोऽवान्तरप्रंकारस्तत्प्रतिपादनायेदमुच्यते । तदवान्तरमेदप्रतिपादनद्वारेणैव चानुवादद्वारेणाविवक्षितवाच्यस्य यः प्रमेदो विवक्षितान्यपरवाच्यात्प्रभिन्नलं तत्प्रतिपादनायेदमुच्यते । भवति मूलतो द्विमेदवं कारिकाकारस्यापि संमतमेवेति भावः । संक्रमितमिति णिचा व्यञ्जनाव्यापारे यः सहकारिवर्गस्तस्यायं 'अंमेद इत्युक्तम् । तिरस्कृतशब्देन च येन वाच्येनौविवक्षितेन सताविवक्षितवाच्यो ध्वनिर्व्यपदिश्यते तद्वाच्यं द्विधेति
१. 'अविवक्षितार्थ' क-ख.
१. 'लौकिकीयानां शब्दानां शास्त्रीयाणां' क-ख. २. 'इत्यतिशयो' क-ख. ३. 'साररूपता' ग. ४. 'युक्त्यैव' क-ग. ५. 'चार्याभिनव' ग. ६. 'विरचिते काव्यालोकलोचने प्रथमः' ग. ७. 'एवमिति' ग. ८. 'मेदः' क-ख. ९. 'संक्रमितेऽपि णिचा व्यञ्जनव्यापारो यः' क-ख. १०. 'प्रभावः' क-ख. ११. 'अविवक्षितवाच्येनावस्थितेव सता' ग.