________________
१ उझ्योतः] ध्वन्यालोकः। व्यापारेण तदितरोऽलंकारवर्गः समग्र एव लक्ष्यति इति प्रत्येकमलंकाराणां लक्षणकरणे वैयर्थ्यप्रसङ्गः । किं च । ___ लक्षणेऽन्यैः कृते चास्य पक्षसंसिद्धिरेव नः ॥२२॥
कृतेऽपि वा पूर्वमेवान्यैर्ध्वनिलक्षणे पक्षसंसिद्धिरेव नः । यस्माद्धनिरस्तीति नः पक्षः । स च प्रागेव संसिद्ध इत्ययत्नसंपन्नसमीहितार्थाः संपन्नाः स्मः । येऽपि सहृदयहृदयसंवेद्यमनाख्येयमेव ध्वनेरात्मानमाम्नासिषुस्तेऽपि न परीक्ष्यवादिनः । यत उक्तया नीत्या वक्ष्यमाणया च ध्वनेः सामान्यविशेषलक्षणे प्रतिपादितेऽपि यद्यनाख्येयत्वं तत्सर्वेषामेव वस्तूनां प्रसक्तम् । यदि पुनलनेरतिशयोक्त्यानया काव्यान्तर्रातिशायि तैः खरूपमाख्यायते तत्तेऽपि युक्ताभिधायिन एव ।
इति श्रीराजानकानन्दवर्धनाचार्यविरचिते ध्वन्यालोके प्रथम उद्द्योतः ।
नीमलंकाराणां व्यापारः । यथा हेतुबलात्कार्य जायत इति तार्किकैरुक्ते किमिदानीमीश्वरप्रभृतीनां कर्तृणां ज्ञातृणां वा कृत्यमपूर्व स्यादिति सर्वो निरालम्बः स्यात् । तदाहलक्षणकरणे वैयर्थ्यप्रसङ्ग इति । मा भूद्वा पूर्वोन्मीलनम् । पूर्वोन्मीलितमेवास्माभिः सम्यङिरूपितं तथापि को दोष इत्यभिप्रायेणाह-किं चेत्यादि । प्रागेवेति । अस्मत्प्रयत्नादिति शेषः । एवं त्रिप्रकारमभाववादं, भक्त्यन्तर्भूततां च निराकुर्वता लक्षणीयत्वमेतन्मध्ये निराकृतमेव । अत एव मूलकारिका साक्षात्तन्निराकरणार्थी न श्रूयते । वृत्तिकृत्तु निराकृतमपि प्रमेयसंख्यापूरणाय कण्ठेन तत्पक्षमनूद्य निराकरोतियेऽपीत्यादिना । उक्तया नीत्या यंत्रार्थः शब्दो वा-' इति सामान्यलक्षणं प्रतिपादितम् । वक्ष्यमाणया तु नीत्या विशेषलक्षणं भविष्यति 'अर्थान्तरे संक्रमितं'-इत्यादिना । तेनान प्रथमोयोते ध्वनेः सामान्यलक्षणमेव कारिकाकारेण कृतम् । द्वितीयो
योते कारिकाकारोऽवान्तरविभागं विशेषलक्षणं च विदधदनुवादमुखेन मूलविभागं द्विविधं सूचितवान् । तदाशयानुसारेण तु वृत्तिकृदत्रैवोहयोते मूलविभागमवोचत् 'स.च
१. 'तदितरालंकार' ग. २. 'करणवैयर्थ्य' ग. ३. 'वादिनः' क-ख. ४. 'अतिशयितं खरूपं' ग. ५. 'श्रीमदानन्द' क-ख. ६. 'काव्यालोके क, 'सहृदयालोकनाग्नि काव्यालंकारे' ग. ७. 'संकेतः' ख..
१. 'करणवैयर्थ्य' ग. २. 'इति' क-ख-पुस्तकयो स्ति. , ३. 'अस्मात्' ग. ४. 'निराकुर्वत एव' ग. ५. 'परिपूरणाय खकण्ठे' ग. ६. यत्रार्थ इत्यारभ्य नीत्या इत्यन्तं क-ख-पुस्तकयो स्ति. ' ७. 'सूचितम्' क-ख. ८. 'वृत्तिर्यदत्र' क-ख. ९. 'मूलभागं' ग.