________________
३ उद्द्योतः ]
ध्वन्यालोक
विश्वासोपगमादभिन्नगतयः शब्दं सहस्ते मृगास्तोयाधारपथाश्च वल्कलशिखानिष्यन्देलेखादिताः ॥2 'मदमुखरकपोतमुन्मयूरं प्रविरलवामनवृक्षसंनिवेशम् । वनमिदमवगाहमानभीमं व्यसनमिवोपरि दारुणत्वमेति ॥ इत्यादौ प्रशब्दस्यौ पच्छन्दसिकस्य च व्यञ्जकत्वमधिकं द्योतते । द्वित्राणां चोपसर्गाणामेकत्र पदे यः प्रयोगः सोऽपि रसव्यक्त्यनुगुणतयैव निर्दोषः । यथा - ' प्रभ्रश्यत्युत्तरीयत्विषि तमसि समुद्वीक्ष्य वीतावृतीन्द्राग्जन्तून् -' इत्यादौ । यथा वा – 'मनुष्यवृत्त्या समुपाचरन्तं ' इत्यादौ । 'यैः स्वप्ने सदुपानतस्य -' इत्यादौ च ।
निपातानामपि तथैव । यथा - 'अहो बतासि स्पृहणीयवीर्यः' इत्यादौ ।
यथा वा
'ये जीवन्ति न मान्ति ये स्ववपुषि प्रीत्या प्रनृत्यन्ति ये प्रस्यन्दिप्रमदाश्रवः पुलकिता दृष्टे गुणिन्यूर्जिते । हा धिक्कष्टमहोक यामि शरणं तेषां जनानां कृते नीतानां प्रलयं शैठेन विधिना साँधुद्विषः पुष्पता ॥'
१५५
इत्यादौ ।
तका निपाता इत्युदोष्यत एवेति भावः । प्रकर्षेण स्निग्धा इति प्रशब्दः प्रकर्षं द्योतयनिङ्गुदीफलानां सरसत्वमाचक्षाण आश्रमस्य सौन्दर्यातिशयं ध्वनयति । ' तापसस्य फलविषयोऽभिलाषातिरेको ध्वन्यते' इति त्वसत् । अभिज्ञानशाकुन्तले हि राज्ञ इयमुक्तिर्न तापसस्येत्यलम् । द्वित्राणामित्यनेनाधिक्यं निरस्यति । सम्यगुच्चैर्विशेषेणेक्षितले हि भगवतः कृपातिशयोऽभिव्यक्तः । 'मनुष्यवृत्त्या सेमुपाचरन्तं स्वबुद्धिसामान्यकृतीतुमानाः । योगीश्वरैरप्यसुबोधमीशं वां बोद्धुमिच्छन्त्यबुधाः खतकैः ॥' सम्यग्भूतमुपां - शुकृता आ समन्ताच्चरन्तमित्यनेन लोकनुजिघृक्षातिशयस्तथा चरतः परमेश्वरस्य ध्वनितः । तथैवेति । रसव्यञ्जकत्वेन द्वित्राणामपि प्रयोगो निर्दोष इत्यर्थः । हा धिगिति ...
१. ‘यथा वा’ क-ख-पुस्तकयोर्नास्ति २. 'यः खमे -' नस्ति. ३. 'च' ग. ४. 'पुलकिनः ' ग. ५. 'शनैश्च' ग.
इत्यादि क-ख- पुस्तकयो६. 'सा विद्विषा' ग.
१. 'समुदा' ग. २. ' कृताभिमानाः ' ग. ३. 'द्रष्टुं' ग. ४. 'लोकातिशयजिघृक्षातिशय' ग.