________________
१४०
काव्यमाला। तरत्वात्सल्पायामप्यखच्छतायां शब्दार्थयोः प्रतीतिर्मन्थरीभवति । रसान्तरे पुनः प्रतिपाद्ये रौद्रादौ मध्यमसमासा संघटना कदाचिद्धीरोद्धतनायकसंबन्धव्यापाराश्रयेण दीर्घसमासापि वा तदाक्षेपाविनामाविरसोचितवाच्यापेक्षया न विगुणा भवतीति सापि नात्यन्तं परिहार्या । सर्वासु च संघटनासु प्रसादाख्यो गुणो व्यापी । स हि सर्वरससाधारणः सर्वसंघटनासाधारणश्चेत्युक्तम् । प्रसादातिक्रमे ह्यसमासापि संघटना करुणविप्रलम्भशझारौ न व्यनक्ति । तदपरित्यागे च मध्यमसमासापि प्रकाशयति । तस्मासर्वत्र प्रसादोऽनुसतव्यः । अत एव च 'यो यः शस्त्रं बिभर्ति-' इत्यादौ यद्योजसः स्थितिर्नेष्यते तत्प्रसादाख्य एव गुणो न माधुर्यम् । न चाचारुत्वम् । अभिप्रेतरसप्रकाशनात् । तस्माद्गुणाव्यतिरिक्तत्वे गुणव्यतिरिक्तत्वे वा संघटनाया यथोक्तादौचित्याद्विषयनियमोऽस्तीति तस्या अपि रसव्यञ्जकत्वम् । तस्याश्च रसाभिव्यक्तिनिमित्तभूताया योऽयमनन्तरोक्तो नियमहेतुः स एव गुणानां नियतो विषय इति गुणाश्रयेण व्यवस्थानमप्यविरुद्धम् ।
खादो विनितत्वात्प्रतिहन्यत इत्यर्थः । तस्यां दीर्घसमाससंघटनायां य आक्षेपस्तेन विना यो न भवति व्यङ्ग्याभिव्यञ्जकस्तादृशो रसोचितो रसव्यञ्जकतयोपादीयमानो वाच्यखस्य यासावपेक्षा दीर्घसमाससंघटनां प्रति साद्गुण्ये हेतुः । नायकस्याक्षेपो व्यापार इति यद्याख्यातं तन श्लिष्यतीवेत्यलम् । व्यापीति। या काचित्संघटना सा तथा कर्तव्या यथा वाच्ये झटिति प्रभवति प्रतीतिरिति यावत् । उक्तमिति । 'समर्पकत्वं काव्यस्य यत्तु' इत्यादिना । न व्यनक्तीति । व्यजकस्य खवाच्यस्यैवाप्रत्यायनादिति भावः । तदिति । प्रसादस्यापरित्यागेऽभीष्टवात् । अत्रार्थे खकण्ठेनान्वयव्यतिरेकावुक्तौ । न माधुर्यमिति । ओजोमाधुर्ययोद्यन्योन्याभावरूपत्वं प्राडिरूपितमिति तयोः संकरोऽत्यन्तं नीतिबाह्य इति भावः । न चेति । प्रसादेनैव स रसः प्रकाशितेन प्रकावित इत्यर्थः। तस्मादिति । यदि गुणाः संघटनैकरूपास्तथापि गुणनियम एव संघटनाया नियमः । गुणाधीनसंघटनापक्षेऽप्येवम् । संघटनाश्रयगुणपक्षेऽपि संघटनाया नियामकत्वेन यद्वक्तृवाच्यौचित्यं हेतुत्वेनोकं तद्गुणानामपि नियमहेतुरिति पक्षत्रयेऽपि न कश्चिद्विप्लव
१. 'खेच्छतायां' क-ख. २. 'व्यापारक्षये' ख. ३. 'समासाश्रयापि वा' क-ख. ४. 'न प्रकाशयति' क-ग. ५. 'गुणातिरिक्तत्वे' ग. ६. 'व्यतिरेकत्वे' क-ख.
१. 'ह्यहेतुः' ग. २. 'श्रुतिबाह्यः' ग.