________________
२ उपयोतः]
ध्वन्यालोकः। इत्यत्र करुणरसस्य शुद्धस्याङ्गभावात्स्पष्टमेव रसवदलंकारत्वम् । एवमेवंविधे विषये रसान्तराणां स्पष्ट एवाङ्गभावः । संकीर्णो रसादिरङ्गभूतो यथा'क्षिप्तो हस्तावलमः प्रसभमभिहतोऽप्याददानोंऽशुकान्तं
गृहन्केशेष्वपास्तश्चरणनिपतितो नेक्षितः संभ्रमेण । आलिङ्गन्योऽवधूतस्त्रिपुरयुवतिभिः साश्रुनेत्रोत्पलामिः
__ कामीवा पराधः स दहतु दुरितं शांभवो वः शरामिः ॥' इत्यत्र त्रिपुररिपुप्रभावातिशयस्य वाक्यार्थत्वे ईर्ष्याविप्रलम्भस्य श्लेषसहितस्याङ्गभाव इत्येवंविध एव रेसवदाद्यलंकारस्य न्याय्यो विषयः ।
तथा रसेनापि वस्तु वा रसान्तरं वोपैस्कृतं सुन्दरं भाति । इति रसस्यापि वस्तुन इवालंकारले को विरोधः । ननु रसेन किं कुर्वता कृतोऽर्थोऽलंक्रियते । तर्हि उपमयापि किं कुर्वत्यालंक्रियेत । ननु तयोपमीयते प्रस्तुतोऽर्थः । रसेनापि तर्हि सरसीक्रियते सोऽर्थ इति स्वसंवेद्यमेतत् । तेन यत्केचिदचूचुदन् 'अत्र रसेन विभावादीनां मध्ये किमलंक्रियते' इति तदनभ्युपगमपराहतम् । प्रस्तुतार्थस्यालंकार्यत्वेनाभिधानात् । अस्यार्थस्य भूयसा लक्ष्ये सद्भाव इति दर्शयति-एवमिति । यत्र राजादेः प्रभावख्यापनं तादृश इत्यर्थः । संकीर्णरसाद्यलंकारमुदाहरति-क्षिप्त इति । कामिपक्षेऽनादृतः, इतरत्र धुतः । अवधूत इति न प्रतीप्सितः प्रत्यालिङ्गनेन, इतरत्र सर्वाङ्गधूननेन विशेरारूकृतः । साश्रुत्वमेकत्रेjया अन्यत्र निष्प्रत्याशतया । कामीवेत्यनेनोपमानेन श्लेषानुगृहीतेनेाविप्रलम्भो ये आकृष्टस्तस्य श्लेषोपमासहितस्याङ्गत्वम् , न केवलस्य । यद्यत्र करुणो रसो वास्तवोऽप्यस्ति तथापि स तच्चारुवप्रतीतौ न व्याप्रियत
१. 'शुद्धस्य' ग-पुस्तके नास्ति. २. 'संकीर्णे' क-ख. ३. 'तश्चा' ग. ४. 'आदधानो' क-ख. ५. 'रसवदलंकारस्य' ग.
१. 'अतथा' ग. २. 'वस्तुना रसान्तर' ख. ३. 'वा' क-ख-पुस्तकयो स्ति. ४. 'किं' क-ख पुस्तकयो स्ति. ५. 'प्रस्तुतो' ग. ६. 'क्रियते' क-ख. ७. 'प्रस्तुतोऽर्थः' क-ख पुस्तकयो स्ति. ८. 'अत्र' क-ख-पुस्तकयो स्ति. ९. 'इति' गपुस्तके नास्ति. १०. 'तदभ्युपगम' क-ख. ११. 'अलंकारत्वेन' क-ख. १२. 'भूयसार्थसद्भावः' क-ख. १३. 'अत्र' ग. १४. 'प्रभाव' क-ख-पुस्तकयो स्ति. १५. 'संकी-रति' ग-पुस्तके नास्ति. १६. 'द्रुतः' ख, 'भूतः' ग. १७. “विशरारुकः' ग. १८. 'य आकृ-केवलस्य' ग-पुस्तके नास्ति.