SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ ७४ काव्यमान। अत एव चेाविप्रलम्भकरुणयोरङ्गत्वेन व्यवस्थानासमावेशो न दोषः । यत्र हि रसस्य वाक्यार्थीभावस्तत्र कथमलंकारत्वम् । अलंकारो हि चारुत्वहेतुः प्रसिद्धः । न त्वसावात्मैवात्मनश्वारुत्वहेतुः । तथा चायमत्र संक्षेपः'रसभावादितात्पर्यमाश्रित्य विनिवेशनम् । अलंकृतीनां सर्वासामलंकारत्वसाधनम् ॥६॥ तस्माद्यत्र रसादयो वाक्यार्थीभूताः सर्वे ते न रसादेरलंकारस्य वा विषयाः स ध्वनेः प्रभेदः। तस्योपमादयोऽलंकाराः । यत्र तु प्राधान्येनार्थान्तरस्य वाक्यार्थीभावे रसादिभिश्चारुत्वनिष्पत्तिः क्रियते स रसादेरेलंकारताया विषयः। इत्यनेनाभिप्रायेण श्लेषसहितस्येत्येतावदेवावोचत् । न तु करुणसहितस्येत्यपि । एतमर्थमपूर्वतयोत्प्रेक्षितं द्रढीकर्तुमाह-अत एवेति । यतोऽत्र विप्रलम्भस्यालंकारत्वं न तु वाक्यार्थता अतो हेतोरित्यर्थः । न दोष इति । यदि ह्यन्यतरस्य रेसादेः प्राधान्यमभविष्यन्न द्वितीयो रसः समाविशेत् । रतिस्थायिभावत्वेन तु सापेक्षभावो विप्रलम्भः । से च शोकस्थायिभावत्वेन निरपेक्षभावस्य करुणस्य विरुद्ध एव । एवमलंकारशब्दप्रसङ्गेन समावेशं प्रसाध्य एवंविध एवेति यदुक्तं तत्रैवकारस्याभिप्रायं व्याचष्टे-यत्र हीति । सर्वासामुपमादीनाम् । अयं भावः-उपमादीनामलंकारत्वे यादृशी वार्ता ताहश्येव रसादीनाम् । तदवश्यमनेनालंकार्येण भवितव्यम् । तच्च यद्यपि वस्तुमात्रमपि भवति तथापि तस्य पुनरपि विभावादिरूपतात्पर्यावसानाद्रसादितात्पर्यमेवेति सर्वत्र रस. ध्वनेरेवात्मभावः । तदुक्तं-रसभावादितात्पर्यमिति । तस्येति प्रधानस्यात्मभूतस्य । एतदुक्तं भवति–उपमया यद्यपि वाच्योऽर्थोऽलंक्रियते तथापि तस्य तदेवीलंकरणं यद्य १. 'समावेशे' क-ख. २. 'चारुत्वे सिद्धिहेतुः' क-ख. ३. 'न खात्मैवात्मनः । तथा' क-ख. ४. 'तथायमत्र' ग. ५. 'विनिवेशितम्' क-ख. ६. 'सर्वे-विषयाः' क-ख-पुस्तकयो स्ति. ७. 'तु' क-ख-पुस्तकयो स्ति. ८. 'अर्थान्तरवाक्यार्थी' क-ख. ९. 'अलंकारताविषयः' क-ख. १. 'एवंविध एवेति' ग. २. 'ततो' क-ख. ३. 'रसादेः' ग-पुस्तके नास्ति. ४. 'तु' क-ख-पुस्तकयो स्ति. ५. 'स च' क-ख-पुस्तकयो स्ति. ६. 'सर्वासामित्युपमा' ग. ७. 'वाक्' ग. ८. 'तत्र' ग. ९. 'तस्य' क-ख-पुस्तकयो स्ति. १०. 'तदेवालंकरणीयं व्यङ्गयार्था' क-ख.
SR No.023466
Book TitleDhvanyaloak
Original Sutra AuthorN/A
AuthorAnandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1928
Total Pages258
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy