________________
१ उक्ष्योतः]
ध्वन्यालोकः । दाचक्षीरन्-शब्दार्थशरीरं तावत्काव्यम् । तस्य शब्दगताश्चारुत्वहेतवोऽनुप्रासादयः प्रसिद्धा एव । अर्थगताश्चोपमादयः । वर्णसंघटनाधर्माश्च ये माधुर्यादयस्तेऽपि प्रतीयन्ते । तदनतिरिक्तवृत्तयोऽपि याः कैश्चिदुप
विच्छित्तिप्रकाराणामसंख्यत्वात् । तथापि गुणालंकारव्यतिरिक्तवाभाव एव । तावन्मात्रेण च किं केल्यम् । अन्यस्यापि वैचित्र्यस्य शक्योत्प्रेक्ष्यत्वात् । चिरंतनैहि भरतमुनिप्रभृतिभिर्यमकोपमे शब्दार्थालंकारत्वेनेष्टे । तत्प्रपञ्चदिक्प्रदर्शनं वन्यैरलंकारकारैः कृतम् । तत्र यथा 'कर्मण्यण्' इत्यत्र कुम्भकाराद्युदाहरणं श्रुखा खयं नगरकारादिशब्दा उत्प्रेक्ष्यन्ते । तावता क आत्मनि बहुमानः । एवं प्रकृतेऽपीति तृतीयः प्रकारः। एवमेकस्त्रिधाविकल्पः अन्यौ च द्वौ इति पञ्च विकल्पा इति तात्पर्यार्थः । तानेव क्रमेणाह-शब्दार्थशरीरं तावदित्यादिना । तावद्हणेन कस्याप्यत्र न विप्रतिपत्तिरिति दर्शयति । तंत्र शब्दार्थो न तावद्ध्वनिः । संज्ञामात्रे हि को गुणः । अथ शब्दार्थयोश्चारुत्वं स ध्वनिः । तथापि द्विविधं चारुत्वम्-खरूपमात्रनिष्ठम् , संघटनाश्रितं च । तत्र शब्दानां स्वरूपमात्रकृतं चारुत्वं शब्दालंकारेभ्यः । संघटनाश्रितं तु शब्दगुणेभ्यः । एवमर्थानां चारुवं खरूपमात्रनिष्ठमुपमादिभ्यः । संघटनापर्यवसितं वर्थगुणेभ्य इति न गुणालंकारव्यतिरिक्तो ध्वनिः कश्चित् । संघटनाधर्मा इति । शब्दार्थयोरिति शेषः । यद्गुणालंकारव्यतिरिक्तं तच्चारुत्वकारि न भवति । नित्यानित्यदोषा असाधुदुःश्रवादय इव । चारुत्वहेतुश्च ध्वनिः । तन्न तद्यतिरिक्त इति व्यतिरेकी। ननु वृत्तयो रीतयश्च यथा गुणालंकारव्यतिरिक्ताश्चारुत्वहेतवश्च तथा ध्वनिरपि तद्यतिरिक्तश्च चारुत्वहेतुश्च भविष्यतीत्यसिद्धो व्यतिरेक इत्यनेनाभिप्रायेणाह-तदनतिरिक्तवृत्तय इति । नैव वृत्तिरीतीनां तद्व्यतिरिक्तत्वं सिद्धम् । तथा ह्यनुप्रासानामेव दीप्तमसृणमध्यमवर्णनीयोपयोगितया परुषत्वललितत्वमध्यमत्वखरूपविवेचनाय वर्गत्रयसंपादनार्थ तिस्रोऽनुप्रासजातयो वृत्तय इत्युक्ताः । वर्तन्तेऽनुप्रासभेदा आस्विति । यदाह'सरूपव्यानन्यासं तिसृष्वेतासु वृत्तिषु । पृथपृथगनुप्रासमुशन्ति' 'इति । पृथक्पृथ
१. 'काश्चित्' ग.
१. 'एव' ग-पुस्तके नास्ति. २. 'कृतम्' ग. ३. 'उत्प्रेक्षितत्वात्' ग. ४. 'एव शब्दार्थालंकृतित्वेनोक्ते' ग. ५. 'तानेव च' ग. ६. 'न' ग-पुस्तके नास्ति. ७. 'तत्र' ग-पुस्तके नास्ति. ८. 'अतः' क-ख. ९. 'मात्र' क-ख-पुस्तकयो स्ति. १०. 'दुःश्रवा इव' ख. ११. 'व्यतिरेकिहेतुः' ग. १२. 'अनेन' ग-पुस्तके नास्ति. १३. 'धनुप्रासादीनां' क-ख. १४. 'मध्य' ग. १५. 'खरूपव्यञ्जनान्यासान्' ग. १६. 'कवयस्तथेति' ग.
२ ध्व. लो.