SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। नागरिकाद्याः प्रकाशिताः, ता अपि गताः श्रवणगोचरम् । रीतयश्च वैदभीप्रभृतयः । तद्व्यतिरिक्तः कोऽयं ध्वनिर्नामेति । अन्ये ब्रूयुः-नास्त्येव ध्वनिः । प्रसिद्धप्रस्थानव्यतिरेकिणः काव्य गिति । परुषानुप्रासः । उपनागरिकानुप्रासः । उपनागरिका ललिता । नागरिकया विदग्धया उपमितेति कृत्वा । मध्यमं कोमलम् । अपरुषमित्यर्थः । अत एव वैदग्ध्यविहीनखभावा सुकुमारा अपरुषा ग्राम्यवनितासादृश्यादियं वेत्तिाम्येति च तृतीयः कोमलानुप्रास इति वृत्तयोऽनुप्रासजातय एव । न चेह वैशेषिकवद्वृत्तिर्विवक्षिता । येन जातौ जातिमतो वर्तमानत्वं न स्यात् । तदनुग्रह एव हि तत्र वर्तमानत्वम् । यथाह कश्चित् ।-'लोकोत्तरे हि गाम्भीर्ये वर्तन्ते पृथिवीभुजः' इति । तस्माद्वृत्तयोऽनुप्रासेभ्योउनतिरिक्तवृत्तयो नाभ्यधिकव्यापाराः । अत एव व्यापारभेदाभावान्न पृथगनुमेयखरूपा अपीति वृत्तिशब्दस्य व्यापारवाचिनोऽभिप्रायः । अनतिरिक्तत्वादेव वृत्तिव्यवहारो भामहादिभिर्न कृतः । उद्भटादिभिः प्रयुक्तेऽपि तस्मिन्नार्थः कश्चिदधिको हृदयपथमवतीर्ण इत्यभिप्रायेणाह-गताः श्रवणगोचरमिति । रीतयश्चेति । तदनतिरिक्तवृत्तयोऽपि गताः श्रवणगोचरमिति संबन्धः । तद्यतिरिक्त इति । तच्छब्देनात्र माधुर्यादयो गुणाः । तेषां च समुचितचित्तवृत्त्यर्पणे यदन्योन्यमेलनक्षमत्वेन पानक इव गुडमरिचादिरसानां संघातरूपतागमनं दीप्तललितमध्यमवर्णनीयविषयं गौडीयवैदर्भपाञ्चालदेशहेवाकप्राचुर्यदृशा तदेव त्रिविधं रीतिरित्युक्तम् । जातिर्जातिमतो नान्या समुदायश्च सेमुदायिभ्यो नान्य इति वृत्तिरीतयो न गुणालंकारव्यतिरिक्ता इति स्थित एवासौ व्यतिरेकी हेतुः । तदाह-कोऽयं ध्वनिरिति । नैष चारुत्वस्थानम् । शब्दार्थवरूपत्वाभावात् । नापि चारुत्वहेतुः । गुणालंकारव्यतिरिक्तत्वात् । तेनाखण्डबुद्धिसमाखाद्यमपि काव्यमपोद्धारबुद्ध्या यदि विभज्यते तत्रा(था)प्यत्र ध्वनिशब्दवाच्यो न कश्चिदतिरिक्तोऽर्थो लभ्यत इति नामशब्देनाह । ननु मा भूदसौ शब्दार्थखभावः, मा च भूचारुत्वहेतुः येन गुणालंकारव्यतिरिक्तोऽसौ न स्यादित्याशय द्वितीयमभाववादप्रकारमाह-अन्य इति । भवत्वेवम् , तथापि नास्त्येव ध्वनिर्यादृशस्तव लिलक्षयिषतः काव्यस्य ह्यसौ कश्चिद्वक्तव्यः । न चासौ गीतनृतहास्यादिस्था १. 'परुषानुप्रासः । परुषा दीप्ता । मसृणानुप्रासः । उपनागरिका कया विदग्धया' ग. २. 'वृत्तिाम्या कोमला च । तृतीयः कोमलपरुषानुप्रास इति' ग. ३. 'जातिमतिवर्तन' ग. 'वर्तमानं' ख. ४. 'नुप्रासादिभ्यो' क-ख. ५. 'अभिधेय' ग. ६. 'तद्व्यतिरिक्त इति' ग-पुस्तके नास्ति. ७. 'गमनं च दीप्त' ख., 'गमनदीप्त' ग. ८. वैदर्भीपाञ्चालीदेशपाकप्राचुर्य' ग. ९. 'समुदायिनो' ग. १०. 'स्वरूपाभावात्' ग. ११. 'यदि' ख-पुस्तके नास्ति. १२. 'अर्थो' ग-पुस्तके नास्ति. १३. 'तेन गुणालंकारव्यतिरिक्तन सौस्थ्यादित्या' ग. १४. 'लिलक्षयिषितः' ग. १५. 'वाद्यादिस्थानीयः' ग.
SR No.023466
Book TitleDhvanyaloak
Original Sutra AuthorN/A
AuthorAnandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1928
Total Pages258
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy