________________
१ उद्योतः ]
ध्वन्यालोकः ।
प्रकारस्य काव्यत्वहानेः । सहृदयहृदयाह्नादिशब्दार्थमयत्वमेव काव्यलक्षणम् । न चोक्तप्रस्थानांतिरेकिणो मार्गस्य तत्संभवति । न च तत्समयान्तःपातिनः सहृदयान्कांश्चित्परिकल्पिततत्प्रसिद्ध्या ध्वनौ काव्यव्यपदेशः प्रवर्तितोऽपि सकल विद्वन्मनोग्राहितामैवलम्बते ।
नीयः काव्यस्य कश्चित् । कवनीयं काव्यम् । तस्य भावः काव्यत्वम् । न च नृत्तगीतादि कवनीयमित्युच्यते । प्रसिद्धेति । प्रसिद्धं प्रस्थानं शब्दार्थौ तद्गुणालंकाराश्चेति । प्रतिष्ठन्ते परम्परया विहरन्ति येन मार्गेण तत्प्रस्थानम् । काव्यप्रकारस्येति । काव्यप्रकारत्वेन तव स मार्गोऽभिप्रेतः । ' काव्यस्यात्मा' इत्युक्तत्वात् । ननु कस्मात्तत्काव्यं न भवतीत्याह- सहृदयेति । मार्गस्येति । नृत्तगीताद्यक्षि निकोचनादिप्राय-स्येत्यर्थः । तदिति । सहृदयेत्यादिकाव्यलक्षणमित्यर्थः । ननु ये तादृशमपूर्वं काव्यरूपतया जानन्ति त एव सहृदयाः । तदभिमतत्वं च नाम काव्यलक्षणमुक्तप्रस्थानाति रेकिण एव भविष्यतीत्याशङ्कयाह – न चेति । यथा हि खङ्गलक्षणं करोमीत्युक्त्वा आतानवितानात्मा प्रात्रियमाणः सकलदेहाच्छादकः सुकुमारश्चित्रतन्तुविचितः संवर्त -- नविवर्तनसहिष्णुरच्छेदकः सुच्छेद्य उत्कृष्टः खङ्ग इति ब्रुवाणः परैः पटः खल्वेवंविधो भवति न खड्ग इत्युक्ततया पर्यनुयुज्यमान एवं ब्रूयात् — ईदृश एव खड्गो ममाभिमत इति तादृगेवैतत् । प्रसिद्धं हि लक्ष्यं भवति ने 'केल्पितमिति भावः । तदाह-सक
१२
93
लविद्वदिति । विद्वांसोऽपि हि तत्समयज्ञा एवं भविष्यन्तीति शङ्कां सकलशब्देन निराकरोति । एवं हि कृतेऽपि न किंचित्कृतम् । तस्मादुन्मत्तता परं प्रकटितेति भावः । यस्त्वत्राभिप्रायं व्याचष्टे – जीवितभूतो ध्वनिस्तावत्त्वाभिमतः । जीवितं च नाम प्रसिद्धप्रस्थानातिरिक्तम् । अलंकारैरनुक्तत्वात्तच्च न काव्यमिति लोके प्रसिद्धमिति । तस्येदं सर्वं स्ववचनविरुद्धम् । यदि हि तत्काव्यस्यानुप्राणकं तेनाङ्गीकृतं पूर्वपक्षवादिना तश्चिरंतनैरनुक्तमिति प्रत्युत लक्षणानर्हमेव भवति । तस्मात्प्राक्तन एवात्राभिप्रायः । ननु भवत्वसौ चारुत्वहेतुः शब्दार्थगुणालंकारान्तर्भूतश्च तथापि ध्वनिरित्यमुया भाषया जीवितमित्यसौ न केनचिदुक्त इत्यभिप्रायमाशङ्क्य तृतीयमभाववादमुपन्यस्य
१. 'अतिक्रमिणो' ग. २. 'परिकल्प्य तत्प्र-' ग. ३. 'एव लम्बते' ग.
१. 'काव्यस्य च' क-ख. २. 'नृत्तादि' ग. ३. 'प्रसिद्ध्येति' क. ४. 'नृत्तगीतादिकामिनीकोपादिप्राय' ग. ५. 'तमिति' ग. ६. 'हि' क ख - पुस्तकयोर्नास्ति. ७. 'प्रापयमाणः ' ग. ८. 'तन्तुचितः ' ग. ९. 'खच्छ' ख-ग. १०. 'न' ग-पुस्तके नास्ति. ११. 'विकल्पितं' क. १२. 'अपि' ख- पुस्तके नास्ति. १३. 'हि' ग-पुस्तके नास्ति. १४. 'एव' क-ख- पुस्तकयोर्नास्ति. १५. 'किंचित्कृतं स्यात् ' क ' कश्चित्कृतः स्यात् ' ग. १६. ‘तथाभिमतः’ क-ख. १७. 'लक्षणा' ग. १८. 'अत्र' ग-पुस्तके नास्ति