________________
२ उझ्योतः] ध्वन्यालोकः।
शब्दार्थव्यवहारे च प्रसिद्धिरेव प्रमाणम् । श्लेषध्वनिर्यथा
'रम्या इति प्राप्तवतीः पताकाः कामं विविक्ता इति वर्धयन्तीः ।
यस्यामसेवन्त नमवलीकाः समं वधूभिर्वलभीर्युवानः ॥' . अत्र वधूभिः सह वलभीरसेवन्तेति वाक्यार्थप्रतीरेरनन्तरं वध्व इव वलभ्य इति श्लेषप्रतीतिरशब्दाप्यर्थसामर्थ्यान्मुख्यत्वेन विवर्तते । यथासंख्यध्वनिर्यथा
'अङ्कुरितः पल्लवितः कोरकितः पुष्पितश्च सहकारः। __ अङ्कुरितः पल्लवितः कोरकितः पुष्पितश्च हृदि मदनः ॥'
नन्वेतदप्यसंबद्धमस्वित्याशङ्कयाह-शब्दार्थेति । पताका ध्वजपटान्प्राप्तवती । रम्या इति हेतोः पताकाः प्रसिद्धीः प्राप्तवती । किमाकाराः प्रसिद्धीः । रम्या इत्येवमाकाराः। विविक्ता जनसंकुलवाभावादित्यतो हेतो रागं संभोगाभिलाषं वर्धयन्तीः । अतो हेतोः विविक्ता विभक्ताङ्गयो लटभाः । नमन्ति वलीकानि च्छदिपर्यन्तभागा यासु । नमन्त्यो वल्लयस्त्रिवलीलक्षणा यासाम् । सममिति सहेत्यर्थः । ननु समशब्दात्तुल्यार्थेऽपि प्रतीतिः । सत्यम् । सापि श्लेषबलात् । श्लेषश्च नाभिधावृत्तेराक्षिप्तोऽपि वर्थसौन्दर्यबलादेवेति. सर्वथा ध्वन्यमान एव श्लेषः । अत एव वध्व इव वलभ्य इत्यभिदधतापि वृत्तिकृतोपमाध्वनिरिति नोक्तम् । श्लेषस्यैवात्र मूलवात् । सममिति यदि स्पष्टं भवेत्तदोपमाया एव स्पष्टवाच्छेषस्तदाक्षिप्तः स्यात् । सममिति निपातोऽञ्जसा सहार्थवृत्तिर्व्यञ्जकलबलेनैव क्रियाविशेषणवेन शब्दश्लेषतामेति । न च तेन विनाभिधाया अपरिपुष्टता काचित् । अत एव समाप्तायामेवाभिधायां सहृदयैरेव स द्वितीयोऽर्थः पृथक्प्रयत्नेनीवगम्यते । यथोकं प्राक्-'शब्दार्थशासनज्ञानमात्रेणैव-' इत्यादि । एतच्च सर्वोदाहरणेम्वनुसतव्यम् । 'पीनश्चैत्रो दिवा नात्ति' इत्यत्राभिधैवापर्यवसितेति सैव खार्थनिर्वाहायार्थान्तरं शब्दान्तरं वाकर्षतीत्यनुमानस्य श्रुतार्थापत्तेर्वा तार्किकमीमांसकयोर्न ध्वनिप्रसङ्ग इत्यलं बहुना । तदाह-अशब्दापीति । एवमन्येऽपीति । सर्वेषामेवार्थालंका
१. 'कुसुमितः' ग.
१. 'सम इति' क-ख. २. “विशेषणतया' ग. ३. 'न परिदुष्टता' क-ख. ४. 'अवगम्यः' ग. ५. 'खात्म' क-ख. ६. 'भूतार्थापत्तेः' ग. ७. 'मीमांसकपक्षयोः' क-ख. ८. 'तदाह ग.