________________
११४
काव्यमाला । नैव । तत्तु चन्दनासक्तभुजगनिःश्वासानिलमूछितत्वेनोप्रेक्षितमित्युत्प्रेक्षा साक्षादनुक्तापि वाक्यार्थसामर्थ्यादनुरणनरूपा लक्ष्यते । न चैवंविधे विषये इवादिशब्दप्रयोगमन्तरेणासंबंद्धैवेति शैक्यं वक्तुम् । गमकत्वादन्यत्रापि तदप्रयोगे तदर्थावगतिदर्शनात् । यथा
'ईसीकलुसस्स वि तुह मुहस्स णं एस पुण्णिमाचन्दो ।
अज्ज सरिसत्तणं पाविऊण अङ्गे विअ ण माइ ॥' यथा वा
'त्रासाकुलः परिपतन्परितो निकेता___ नपुंभिर्न कैश्चिदपि धन्विभिरन्वबन्धि । तस्थौ तथापि न मृगः क्वचिदङ्गनाभि__राकर्णपूर्णनयनेषुहतेक्षणश्रीः ॥'
रेकमित्यर्थः । उत्प्रेक्षितमिति । विषवातेन हि मूछितो बृंहित उपचितो मोहं करोति । एकश्च मूर्च्छितः पथिकः पथिकमध्येऽन्येषामपि धैर्यच्युतिं विदधन्मूर्छा करोतीत्युभयथोत्प्रेक्षा । नन्वत्र विशेषणमधिकीभवद्धतुतयैव संगच्छते । ततः किमपि हेखतः परमार्थतः । तथापि तु हेतुत उत्प्रेक्ष्यत इति यत्किंचिदेतत् । तदिति । तस्ये. वादेरप्रयोगेऽपि तस्यार्थस्येत्युत्प्रेक्षारूपस्यावगतेः प्रतीतेर्दशनात् । एतदेवोदाहरतियथेति । ईर्ष्याकलुषस्यापीषदरुणच्छायाकस्य यदि खप्रसन्नस्य मुखस्य सादृश्यमुदहेत्सर्वदा वा तत्किं कुर्यात्त्वन्मुखं खेतद्भवतीति मनोरथानामप्यपथमिदमित्यपिशब्दस्याभिप्रायः । अङ्गे खदेहे न मात्येव दश दिशः पूरयति । यतोऽयेयता कालेनैकं दिवसमात्रमित्यर्थः । अत्र पूर्णचन्द्रेण दिशां पूरणं स्वरससिद्धमेवोत्प्रेक्ष्यते । ननुशब्देन वितत्प्रेिक्षारूपमाचक्षाणेनासंबद्धता निराकृतेति संभावयमान उदाहरणान्तरमाह-यथा वेति । परितः सर्वतो निकेतान्परिपतन्नाक्रमन कैश्चिदपि चापपाणिभिरसौ मृगोऽनुबद्धस्तथापि न क्वचित्तस्थौ त्रासचापलयोगात्स्वाभाविकादेव । तत्र चोत्प्रेक्षा ध्वन्यते-अङ्गनाभिराकर्णपूर्णर्नेत्रशरैर्हता ईक्षणश्रीः सर्वस्वभूता यस्य यतोऽतो न तस्थौ ।
१. 'रूपव्यङ्ग्या' क-ख. २. 'संबन्धतैवेति' ग. ३. 'शक्यते' ग. ४. 'ईर्ष्याकलुषस्यापि तव मुखस्य नन्वेष पूर्णिमा चन्द्रः । अद्य सदृशवं प्राप्याङ्ग इव न माति ॥' इति च्छाया.
१. 'उपचरितो' ग. २. 'ततः किं न हि हेतुतः परमार्थेन तथापि' ग. ३. 'हेतुतापि' क-ख. ४. 'यदि' क-ख. ५. 'तस्योत्प्रेक्षा' क-ख. ६. 'दर्शनं तस्मात्' क-ख. ७. 'अत्र पराकृतेति' क-ख. ८. 'यस्याग्रतः कुतो न' ग.