SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ १५४ काव्यमाला । तापसः इत्यत्र तद्धितनिपातयोः । 'सोऽप्यत्रैव निहन्तिं राक्षसकुलं जीवत्यहो रावणः' इत्यत्र तिङ्कारकशक्तीनाम् । 'विग्धिक्छऋजितं-' इत्यादौ श्लोकार्पे कृत्तद्धितसमासोपसर्गाणाम् । एवंविधस्य व्यञ्जकभूयस्त्वे च घटमाने काव्यस्य सर्वातिशायिनी बन्धच्छाया समुन्मीलति । यत्र हि व्यङ्ग्यावभासिनः पदस्यैकस्यैव तावदाविर्भावस्तत्रापि काव्ये कापि बन्धच्छाया किमुत विभावस्तत्राप का यत्र तेषां बहूनां समवायः । यथात्रानन्तरोदितश्लोके । अत्र हि रावण इत्यस्मिन्पदेऽर्थान्तरसंक्रमितवाच्येन ध्वनिप्रभेदेनालंकृतेऽपि पुनरनन्तरोक्तानां व्यञ्जकप्रकाराणामुद्भासनम् । दृश्यन्ते च महात्मनां प्रतिभाविशेष. माजां बाहुल्येनैवंविधा बन्धप्रकाराः । धिष्ठितो देशोऽधिकरणम् । निःशेषेण हन्यमानतया राक्षसबलं च कर्मेति । तदिदमसंभाव्यमानमुपनतमिति पुरुषकारासंपत्तिव॑न्यत इति । कारकशक्तिप्रतिपादकैश्च शब्दैः सवण इति वर्थान्तरसंक्रमितवाच्यवं पूर्वमेव व्याख्यातम् । धिग्धिगिति निपातस्य शक्रं जितवानित्याख्यायिकेयमिति उपपदसमासेन सहकृतः स्वर्गेत्यादिसमासस्य स्वपौरुषानुस्मरणं प्रति.... तद्धितप्रयोगस्य प्रत्ययसहितस्याबहुमानास्पदवम् । विलुण्ठनशब्देन ......... निर्दयावस्कन..... व्यञ्जकत्वम् । वृथाशब्दस्य निपातस्य स्वात्मपौरुषनिन्दां प्रति व्यञ्जकता । भुजैरिति बहुवचनेन प्रत्युत भारमात्रमेतदिति व्यज्यते। तेन तिलशस्तिलशोऽपि विभज्यमानेऽत्र श्लोके सर्व एवांशो व्यञ्जकलेन भातीति किमन्यत् । एतदर्थप्रदर्शनस्य फलं दर्शयति-ऐवसिति । एकस्य पदस्येति यदुक्तं तदुदाहरति-यथात्रेति । अतिक्रान्तं न तु कदाचन वर्तमानतामवलम्बमानं सुखं येषु ते काला इति सर्व एव । न तु सुखं प्रति वर्तमानो नाम कोऽपि काललेश इत्यर्थः। प्रतीपान्युपस्थितानि निकटतया वर्तमानानि भवन्ति दारुणानि दुःखानि येषु ते । दुःखं बहुप्रकारमेव प्रति वर्तमानरूपाः सर्वे कालांशा इत्यनेन कालस्य तावनिर्वेदमभिव्यञ्जयतः शान्तरसव्यञ्जकत्वम् । देशस्याप्याह-पृथिवी श्वः श्वः प्रातः प्रातर्दिनाद्दिनं पापीयदिवसा पापीयानां संबन्धिनः पापिष्ठजनस्वामिका दिवसा यस्यां सा तथोक्ता । खभावत एव तावत्कालो दुःखमयः तत्रापि पापिष्ठजनखामिका पृथिवी ।........" १. ‘एवंविधं' क. २. 'बन्धर्द्धिः' क-ख. ३. 'यथात्रैवानन्तरोदाहृते' क-ख. १. 'प्रति' इत्यस्मादनन्तरं 'व्यञ्जकलम्' अस्मात्पूर्व क-ख-पुस्तकयो स्ति. २. 'एवंविधमिति' क-ख. ३. 'यथा चात्रैवेति' क-ख. ४. 'प्रतिपादस्थितानि प्र....... नि...."प्रत्यावर्तमानानि । तथा दूरभावीन्यपि प्रत्युपस्थितानि निकटतया' ग. ५. 'वर्तमानाः' ग. ६. 'पापानां' क-ख.
SR No.023466
Book TitleDhvanyaloak
Original Sutra AuthorN/A
AuthorAnandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1928
Total Pages258
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy