________________
३ उच्योतः ]
ध्वन्यालोकः ।
यथा महर्षेर्व्यासस्य
'अतिक्रान्तसुखाः कालाः प्रत्युपस्थितदारुणाः । श्वः श्वः पापीयदिवसा पृथिवी गतयौवना ॥'
अत्र हि कृतद्धितवचनैरलक्ष्यक्रमव्यङ्ग्यः, 'पृथिवी गतयौवना' इत्यनेन चात्यन्ततिरस्कृतवाच्यो ध्वनिः प्रकाशितः ।
ऐषां च सुबादीनामेकैकशः समुदितानां च व्यञ्जकत्वं महाकवीनां प्रबन्धेषु प्रायेणान्यत्रापि दृश्यते । सुबन्तस्य व्यञ्जकत्वं यथा'तालैः शिखद्वयसुभगैः कान्तया नर्तितो मे यामध्यास्ते दिवसविगमे नीलकण्ठः सुहृद्वः ॥'
तिङन्तस्य यथा—
'अवसर रोउं चिअ णिम्मिआइँ मा पुंस मे हअच्छीइं । दंसंणमेत्तुम्मत्तेहिं जेहि ँ हिअअं तुह ण णाअम् ॥'
यथा वा
१५५
' मा पन्थं रुन्धीओ अवेहि बालअ अहोसि अहिरीओ । अम्हेअ णिरिच्छाओ सुण्णधरं रक्खिदव्वं णो ॥'
......
.......
लक्षणदेशदौरात्म्याद्विशेषतो दुःखमय इत्यर्थः । तथा हि श्वः श्व इति दिनाद्दिनं गतयौ - वना वृद्धस्त्रीवदसंभाव्यमानसंभोगा गतयौवना हि । यो यो दिवस आगच्छति स पूर्वपूर्वापेक्षया पापीयान् निकृष्टत्वात् । ......चे' " शब्दो ...... एवंप्रयुक्तो जन्तो | अत्यन्तेति । सोऽपि प्रकरस्यैवाङ्गतामेतीति भावः । सुबन्तस्येति । समुदितले तूदाहरणं दत्तं व्यस्तत्वे चोच्यत इति भावः । तालैरिति बहुवचनमनेकविधं वैदग्ध्यं ध्वनि (?) र्विप्रलम्भोद्दीपकतामेति । 'अपसर रोदितुमेव निर्मिते मा उत्पुंसय हते अक्षिणी मे | दर्शनमात्रोन्मत्ताभ्यां याभ्यां तव हृदयमेवंरूपं न ज्ञातम् ॥' उन्मत्तो हि न किंचिज्जानातीति न कस्याप्यत्रापराधः दैवेनेत्थमेव निर्माणं कृतमिति । अपसर मां वृथा प्रयासं कार्षीः दैवस्य विपरिवर्तयितुमशक्यत्वादिति । तिङन्तो व्यञ्जकः तदनुगृहीतानि पदान्तराण्यपीति भावः । 'मा पन्थानं रुधः अपेहि बालक अप्रौढ अहो असि अह्नीकः । वयं परतन्त्रा यतः शून्यगृहं मामकं रक्षणीयं वर्तते ॥' इत्यत्रापेहीति तिङन्त
१. 'च पदेनात्यन्त' क- ख. २. 'तेषां' क - ख.
१. ‘निकृष्टत्वात्’ इत्यस्मादनन्तरं 'अत्यन्तेति' अस्मात्प्राक् क-ग-पुस्तकयोर्नास्ति.